________________
५६
सुभाषितरत्नभाण्डागारम्
।
।
अहो बत खलः पुण्यैर्मूर्खोऽप्यश्रुतपण्डितः । स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः॥ ८० ॥ खलः सुजनपैशुन्ये सर्वतोऽक्षिशिरोमुखः । सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥८१॥ सत्साधुवादे मूर्खस्य मात्सर्य गलरोगिणः । जिह्वा कङ्कमुखेनापि कृष्टा नैव प्रवर्तते ॥ ८२ ॥ मायामयः प्रकृत्यैव रागद्वेषमदाकुलः । महतामपि मोहाय संसार इव दुर्जनः ॥ ८३ ॥ खचित्रमपि मायावी रचयत्येव लीलया । लघुश्च महतां मध्ये तस्मात्खल इति स्मृतः ॥ ८४ ॥ खलेन धनमत्तेन नीचेन प्रभविष्णुना । पिशुनेन पदस्थेन हा प्रजे क्व गमिष्यसि ॥ ८५ ॥ ये श्रमं हर्तुमीहन्ते महतां चिरसंभृतम् वन्द्यास्तेऽसरलात्मानो दुर्जनाः सज्जना इव ॥ ८६ ॥ अहो कुटिलबुद्धीनां दुर्ग्राहमसतां मनः । अन्यद्वचसि कण्ठेऽन्यद्न्यदोष्ठपुटे स्थितम् ॥ ८७॥ खलेषु सत्सु निर्याता वयमर्जयितुं गुणान् । इयं सा तस्करग्रामे रत्नत्रयविडम्बना ॥८८॥ वर्धते स्पर्धयेोभौ संपदा शतशाखया । अङ्कुरोऽवैस्करो - द्भुतः पुरुषश्चाकुलोद्भवः ॥ ८९ ॥ यत्स्मृत्वैव परां यान्ति सन्तः संतापसंततिम् । तदसन्तो हसन्तोऽपि हेलयैव हि कुर्वते ॥ ९० ॥ गुणदोषावशास्त्रज्ञः कथं विभजते जनः किमन्धस्याधिकारोऽस्ति रूपभेदोपलब्धिषु ॥ ९१ ॥ प्रायः प्रकाशतां याति मलिनः साधुबाधया । नाग्रसिष्यत चेदर्के कोऽज्ञास्यत्सिंहिकासुतम् ॥ ९२ ॥ प्रायः परोपतापाय दुर्जनः सततोद्यतः । अवश्यकरणीयत्वान्न कारणमपेक्षते ॥ ९३ ॥ यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः । विश्रम्यं तं द्रुमं हन्ति तथा नीचः स्वमाश्रयम् ॥ ९४ ॥ चारुता परदारार्थं धनं लोकोपैतप्तये । प्रभुत्वं साधुनाशाय खले खलतरा गुणाः ॥ ९५ ॥ परोपकार - विज्ञानमात्रलाभोष॒जीवि॑नाम् । दाशानामिव धूर्तानां जालाय गुणसंग्रहः ॥ ९६ ॥ करोति पूज्यमानोऽपि लोकव्यसनदीक्षितः । दर्शने दर्शने त्रासं गृहाहिरिव दुर्जनः ॥ ९७ ॥ सत्यधर्म च्युतात्पुंसः क्रुद्धादाशीविषादिव । नास्तिकोऽपि ह्युद्विजते जनः किं पुनरास्तिकः ॥ ९८ ॥ येषां प्राणिवधः क्रीडा नर्म मर्मच्छिदो गिरः । कार्य परोपतापित्वं ते मृत्योरपि मृत्यवः ॥ ९९ ॥ न तथेच्छन्त्य कल्याणाः परेषां वेदितुं गुणान् । यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पाप - चेतसः ॥ १०० ॥ अतो हास्यतरं लोके किंचिदन्यन्न विद्यते । यत्र दुर्जन इत्याह दुर्जनः सज्जनं जनम् ॥ १०१ अपकारमसंप्राप्य तुष्येत्साधुरसाधुतः । नैष लाभो भुजं गेन वेष्टितो यन्न दृश्यते ॥ १०२ ॥ लुब्धः स्तब्धोऽनृजुर्मूर्खः प्रभुरेकान्तदारुणः । बहूनेष खलः साधून्मारयित्वा
॥
[ २ प्रकरणम्
मरिष्यति ॥ १०३ ॥ का खलेन सह स्पर्धा सज्जनस्याभिमानिनः । भाषणं भीषणं साधुदूषणं यस्य भूषणम् ॥ १०४ ॥ मुखेनैकेन विध्यन्ति पादमेकस्य कण्टकाः । दूरान्मुखसहस्रेण सर्वप्राणहराः खलाः ॥ १०५ ॥ निर्माय खलजिह्वाग्रं सर्वप्राणहरं नृणाम् । चकार किं वृथा शस्त्रविषवह्नीन्प्रजापतिः ॥१०६ ॥ यथा परोपकारेषु नित्यं जागर्ति सज्जनः । तथा परापकारेषु जागर्ति सततं खलः ॥ १०७ ॥ बिभेति पिशुनान्नीचः प्रकाशनपटीयसः । न पुनर्मूढहृदयो निन्दनीयात्स्वकर्मणः ॥ १०८ ॥ वृथाज्वलितकोपानेः परुषाक्षरवादिनः । दुर्जनस्यौषधं नास्ति किंचिदन्यदनुत्तरात् ॥ १०९ ॥ जीवन्नपि न तत्कर्तुं शक्नोति सुजनस्तथा । दुर्जनो यन्मृतः कुर्यात्परेभ्योऽहितमुत्तरम् ॥ ११० ॥ यद्यदिष्टतमं तत्तद्देयं गुणवते किलं । अत एव खलो दोषासेव्यो हि सज्जनः । न तु प्राणहरस्तीक्ष्णः शरवत्सफलः साधुभ्यः संप्रयच्छति ॥ १११ ॥ वरमत्यन्तविफलः सुखखलः ॥ ११२ ॥ स्वभावेनैव निशितः कृतपक्षग्रहोप सन् । शरवद्गुणनिर्मुक्तः खलः कस्य न भेदकः ॥ ११३ ॥ दुर्जनः सुजनीकर्तुं यत्नेनापि न शक्यते । संस्कारेणापि लशुनं कः सुगन्धीकरिष्यति ॥ ११४ ॥ नैवात्मनो विनाशं गणयति पिशुनः परव्यसनहृष्टः । प्राप्य सहस्रविनाशं समरे नृत्यति मुदा केबन्ध इव ॥ ११५ ॥ रविरपि न दहति तादृग्यादृक् संदहति वालुकानिकरैः । अन्यस्माल्लब्धपदो नीचः प्रायेण दुःसहो भवति ॥ ११६ ॥ त्यक्त्वापि निजप्राणान्परहितविघ्नं खलः करोत्येव । कवले पतिता सद्यो वैमयति खलु मक्षिकान्नभोक्तारम् ॥ ११७॥ कृतमपि महोपकारं पय इव पीत्वा निर्रीतङ्कम् । प्रत्युत हन्तुं यतते काकोदरसोदरः खलो जगति ॥ ११८ ॥ नलिकागतमपि कुटिलं न भवति सरलं शुनः पुच्छम् । तद्वत्खलजनहृदयं बोधितमपि नैव याति माधुर्यम् ॥ ११९ ॥ एते स्निग्धतमा इति मा मा क्षुद्रेषु यात विश्वासम् । सिद्धार्थानामेषां 'स्नेहो - ऽर्घ्यश्रूणि पातयति ॥ १२० ॥ गुणिनां गुणेषु पिशुनजनो दोषमात्रमादत्ते । पुष्पे फले विरागी मेलकः कण्टकौघमिव ॥ १२१ ॥ सुजनानामपि हृदयं पिशुनपरिष्वङ्गलिप्तमिह भवति । पवनः परागवाही रेथ्यासु वहन्रेजैखलो भवति ॥ १२२ ॥ परिपूर्णेऽपि तटाके काकः कुम्भोदकं पिबति । अनुकूलेऽपि ' कलत्रे नीचः परदारलम्पटो भवति ॥ १२३ ॥ दुर्जनदूषितमनसां पुंसां सुजनेऽपि नास्ति विश्वा
१ संमार्जितपांसु संचय स्थानम्, 'उकीरडा' इति लोके - २ राहुम्· ३ परोपतापाय ४ मत्स्यजीवि धीवराणाम्. ५ कुटिल:.
१ अशिरस्कं कलेवरम्. २ पांसुपुञ्जः ३ वान्ति कारयति. ४ निःशङ्कम् ५ वैपरीत्ये. ६ सर्पबन्धुः ७ श्वेतसर्षपाणाम् ; पक्षे, सिद्धोऽर्थः कार्यं येषां ते. ८ तैलम् ; पक्षे, स्नेहभावः ९ बाष्पाणि. १० उष्ट्रः. ११ वीथीषु. १२ रजोयुक्तः १३ भार्यायाम्.