________________
[ ७ प्रकरणम्
३९४
कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ॥ ६६८ ॥ नयेन जाग्रत्यनिशं नरेश्वरे सुखं स्वपन्तीह निराधयः प्रजाः । प्रमत्तचित्ते स्वपतीह संभ्रमात्प्रजागरेणास्य जगत्प्रबुध्यते ॥ ६६९ ॥ चिता दहति निर्जीवं चिन्ता जीवं दहत्यहो । बिन्दुनैवाधिका चिंता चितात्यल्पा हि भूतले ॥ ६७० ॥ | न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ ६७९ ॥ दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव । विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ॥ ६७२ ॥ न सा प्रीतिर्दिविस्थस्य सर्वकामानुपाश्नुतः । संभवेद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ॥ ६७३ ॥ तीर्थस्थितः स्वकुलजांस्तिमिरत्ति भुङ्क्ते मौनी बकस्तिमिमुपेत्य वनान्तवासी । व्याधो निहन्ति तु वकं प्रभवन्ति ते ते पात्राण्युपर्युपरि वश्ञ्चनचञ्चुतायाम् ॥ ६७४ ॥ एतलब्धमिदं च लभ्यमधिकं तन्मूललभ्यं ततो लभ्यं चापरमित्यनारतमहो लभ्यं धनं ध्यायसि । नैतद्वेत्सि पुनर्भवन्तमचिरादाशापिशाची बलात्सर्वग्रास मियं ग्रसिष्यति महामोहन्धकारावृतम् ॥ ६७५ ॥ पूर्वं संमानना यत्र पश्चाश्चैव विमानना । जह्यातत्त्ववान्स्थानं शत्रोः संमानितोऽपि सन् ॥ ६७६ ॥ धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् । धर्मेण लभ्यते सर्वे धर्मसारमिदं जगत् ॥ ६७७ ॥ न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान् । विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः ॥ ६७८ ॥ क्षीणो रविमवति शशी वृद्धौ च वर्धयति पयसां नाथम् । अन्ये विपदि सहाया धनिनां श्रियमनुभवन्त्यन्ये ॥६७९ ॥ कुभार्या च कुपुत्रं च कुराजानं कुसौहृदम् । कुसंबन्धं कुदेशं व दूरतः परिवर्जयेत् ॥ ६८० ॥ किं कुलेन विशालेन शीलमेवात्र कारणम् । कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ॥ ६८९ ॥ नहि कस्य प्रियः को वा विप्रियो वा जगत्रये । काले कार्यवशात्सर्वे भवन्त्येवाप्रियाः प्रियाः ॥ ६८२ ॥ तीक्ष्णोपायप्रान्तगम्योऽपि योऽर्थस्तस्याप्यादौ संश्रयः साधुयुक्तः उत्तुङ्गाः सारभूतो वनानां सालोऽभ्यर्च्य च्छिद्यते पादपेन्द्रः ॥ ६८३ ॥ नापितस्य गृहे क्षौरं पाषाणे गन्धलेपनम् । आत्मरूपं जले पश्यन् शक्रस्यापि श्रियं हरेत् ॥ ६८४ ॥ पुन्नाम्नो नरकाद्यस्मात्रायते पितरं सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ ६८५ ॥ धर्मख्याने श्मशाने च रोगिणां या मतिर्भवेत् । सा सर्वदैव तिष्ठेचेको न मुच्येत बन्धनात् ॥ ६८६ ॥ कालो हेतुं विकुरुते स्वार्थ
| स्तमनुवर्तते । स्वार्थ प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ॥ ६८७ ॥ न स्व सुखे वै कुरुते प्रहर्ष नान्यस्य दुःखे भवति प्रहृष्टः । दत्वा न पश्चात्कुरुतेऽनुतापं स कथ्यते सत्पुरुषार्यशीलः ॥ ६८८ ॥ तिलार्ध स्वीयभागश्च निःसारं बदरीफलम् । आहारात्परतः श्रेयो धूलिः परगृहादपि ॥ ६८९ ॥ धर्म एव लवो नान्यः स्वर्गे द्रौपदि गच्छताम् । सैव नौः सागरस्येव वणिजः पारमिच्छतः ॥ ६९० ॥ न स्कन्दते न व्यथते न विनश्यति कर्हिचित् । वरिष्ठमभिहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ ६९१ ॥ दोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् । येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ॥ ६९२ ॥ किं करिष्यति संसर्गः स्वभावो दुरतिक्रमः । पश्याग्रफलसंसर्गी कषायो मधुरः कुतः ॥६९३॥ धार्मात्मनः शुभैर्वृत्तैः क्रतुभिश्वाप्तदक्षिणैः । धूतपापा गताः स्वर्गे पितामहनिषेवितम् ॥ ६९४ ॥ न विश्वासाज्जातु परस्य गेहे गच्छेन्नरचेतयानो विकाले । न चश्वरे निशि तिष्ठेन्निगूढो न राजकाम्यां योषितं प्रार्थयीत ॥ ६९५ ॥ बध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि । विश्वस्तास्तेषु बध्यन्ते बलवन्तोऽपि दुर्बलैः ॥ ६९६ ॥ न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति चास्ति मेति । न दुर्गतोऽस्मीति करोत्यकार्य तमार्यशीलं परमाहुरार्याः ॥ ६९७ ॥ काले मृदुर्यो भवति काले भवति दारुणः । प्रसाधयति कृत्यानि शत्रुं चाप्यधितिष्ठति ॥ ६९८ ॥ चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किंचित् । मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्य व्यवते कश्चिदर्थः ॥ ६९९ ॥ धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते । असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ ७०० ॥ मवरक्तस्य हंसस्य कोकिलस्स शिखण्डिनः । हरन्ति न तथा वाचो यथा साधु विपश्चिताम् ॥ ७०१ ॥ न स्पृशत्यायुधं जातु न स्त्रीणां स्तनमण्डलम् । अमनुष्यस्य कस्यापि हस्तोऽयं न किलाफलः ॥ ७०२ ॥ कोशमूलो हि राजेति प्रवादः सार्वलौकिकः । एतत्सर्व जहातीह कोशव्यसनवान्नृपः ॥ ७०३ ॥ कालेन शीघ्राः प्रवहन्ति वाताः कालेन वृष्टिर्जलदानुपैति । कालेन पद्मोस्वलवज्जलं च कालेन पुष्प्यन्ति नगा वनेषु ॥ ७०४ ॥ त्वमेव धातुः पूर्वोऽसि त्वमेव प्रत्ययः परः । अनाख्यातं न ते किंचिन्नाथ केनोपमीयसे ॥ ७०५ ॥ क्षीरिण्यः सन्तु गावो भवतु वसुमती सर्वसंपन्नसस्या पर्जन्यः कालवर्षी सकलजनमनोनन्दिनो वान्तु वाताः । मोदन्तां जन्मभाजः सततमभिमता ब्राह्मणाः सन्तु सन्तः श्रीमन्तः पान्तु पृथ्वीं प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः ॥ ७०६ ॥
।
|
सुभाषितरत्नभाण्डागारम्
इति श्रीसुभाषितरत्नभाण्डागारे सप्तमं संकीर्णप्रकरणम् ॥
समाप्तोऽयं ग्रन्थः