________________
सुरतकथनम्
नुशयस्तरुणीनामुन्मिमील विशदं विषमेषुः ॥ १५ ॥ कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष । संहतस्तनतिरस्कृतदृष्टिभ्रष्टमेव न दुकूलमपश्यत् ॥ १६ ॥ आहतं कुचतटेन तरुण्याः साधु सोढमधुनेति पपात । त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्टिरिव मौक्तिकवृष्टिः ॥ १७ ॥ सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि । हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥ १८ ॥ उद्धतैर्निभृतमेकमनेकैश्छेदवन्मृगदृशा - मविरामैः । श्रूयते स्म मणितं कलकाञ्चीनू पुरध्वनिभिरक्षतमेव ॥ १९ ॥ ईदृशस्य भवतः कथमेतल्लाघवं मुहुरतीव रतेषु । क्षिप्तमायतमदर्शयदुर्व्या काचिदाम जघनस्य महत्त्वम् ॥२०॥ प्राप्यते स्म गतचित्रकचित्रैश्चित्रमार्द्रनखलक्ष्म कपोलैः । दधिरेऽथ रभसच्युतपुष्पाः स्वेदबिन्दुकुसुमान्यलकान्ताः ॥ २१॥ यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि तत्तदकुर्वन् । आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः ॥ २२ ॥ प्राप्य मन्मथरसाद - तिभूमिं दुर्वहस्तनभराः सुरतस्य । शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेरामसितायतकेश्यः ॥ २३ ॥ पत्युः प्रवृत्तस्य रतौ जिगीषावचो निशम्याथ न किंचिदूचे । कला - बती किं तु विहस्य तस्य कपोलयोः स्वेदमपाचकार ॥ २४ ॥ उरोरुहाम्भोरुहदर्शनाय विमुञ्चतः कक्षुकबन्धनानि । आनन्दनीराकुललोचनस्य प्रियस्य जातो विपुलः परिश्रमः ॥ २५ ॥ स्वामिन्प्रभो प्रिय गृहाण परिष्वजस्व किं किं शठोऽस्य करुणोऽसि सुखोचितोऽसि । हा दुःखयस्वलमलं विरमेति वाचः स्त्रीणां भवन्ति सुरते प्रणयानुकूलाः ॥ २६ ॥ मत्तेभकुम्भपरिणाहिनि कुङ्कुमा कान्तापयोधरयुगे रतिखेदखिन्नः । वक्षो निधाय भुजपञ्जरमध्यवर्ती धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ २७ ॥ कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु । तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथास्याः॥२८॥ आमीलितालसविवर्तिततारकाक्षीमुत्कण्ठबन्धनदर श्लथब| हुवलीम् । प्रस्वेदवारिकणिका - चितगण्डबिम्बां संस्मृत्य तामनिशमेति न शान्तिमन्तः ॥ २९ ॥ रतिरभसनितान्तश्रान्तकान्ताकुचान्तश्चलदमल - कराया नाभिदेशेष्वधो वा । स्मितमधुरमुखीनां हृीणनेत्रो - त्पलानामधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥ ३० ॥ अविदितसुखदुःखं निर्गुणं वस्तु किंचिज्जैडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे । मम तु मतमनङ्गस्मेरतारुण्यघूर्णन्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ॥३१॥ अभिनवपुलका - लीमण्डिता गण्डपाली निगदति विनिगूढानन्द हिन्दोलि १. वेशन्त विद्यापटुः.
३१९
चेतः । सुदति वदति पुण्यैः कस्य धन्यैर्मनोजप्रसरमसकृदे - तच्चापलं लोचनस्य ॥ ३२ ॥ भजन्त्यास्तल्पान्तं कृतकपटकण्डूतिपिहितस्मितं याते गेहाद्बहिरवहिता लीपरिजने । प्रियायं पश्यन्त्याः स्मरशरसमाकूतसुभगं सलज्जाया लज्जा व्यगमदिव दूरं मृगदृशः ॥ ३३ ॥ दुकूलं दोर्मूलात्प्रणयिन परीरम्भरसिके हरन्त्यम्भोजाक्षी निभृतनिभृतं नम्रवदना । प्रिया श्लेषद्वेषिण्यपसरतु लज्जा स्फुटमिति स्मितक्षीरेणैव स्तनकलशशंभुं स्नपयति ॥ ३४ ॥ चिरविरहिणो रत्युत्कण्ठाश्लथीकृतगात्रयोर्नवमिव जगज्जातं भूयश्चिरादभिनन्दतोः । कथमपि दिने दीर्घे याते निशामधिरूढयोः प्रसरति कथा बह्वी यूनोर्यथा न तथा रतिः ॥ ३५ ॥ दृशा सपदि मीलितं दशनरोचिषा निर्गतं करेण परिवेपितं वलयकैरथाक्रन्दितम् । प्रियैः समदयोषितां ननु विखण्ड्यमानेऽधरे परव्यसन कातराः किमिव कुर्वतां साधवः ॥ ३६ ॥ नैषा वेगं मृदुतरतनुस्तावकीनं विसोढुं शक्ता नैनां चपल नितरां खेदयेन्दीवराक्षीम् । रत्यभ्यासं विदधत इति प्राणनाथस्य गत्वा कर्णोपान्ते निभृतनिभृतं नूपुरं शंसतीव ॥ ३७ ॥ आयाते दयिते मनोरथशतैर्नीते कथंचिद्दिने वैदग्ध्यापगमाज्जडे परिजने दीर्घा कथां कुर्वति । दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं तन्वङ्गया रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥ ३८ ॥ गाढालिङ्गनवामनीकृतकुचप्रोद्भुतरोमोगमा सान्द्र स्नेह रसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना तु किम् ॥ ३९ ॥ दोर्भ्यां संयमितः पयोधरभरेणापीडितः पाणिजैराविद्धो दशनैः क्षताधरपुटः श्रोणीतलेनाहतः । हस्तेनानमितः करेऽधरसुधास्यन्देन संमोहितः कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः ॥ ४० ॥ ईषन्मीलितदृष्टिमुग्ध हसितं सीत्कारधारावशादव्यक्ताकुलकेलि काकु विकसद्दन्तांशुधौताधरम् । श्वासोत्कम्पिपयोधरोपरिपरिष्वक्तं कुरङ्गीदृशो हर्षोत्कर्ष विमुक्तनिःसहत नोर्वन्यो धयत्याननम् ॥ ४१ ॥ खिन्नं मण्डलमैन्दवं विगलितं सग्भारनद्धं तमः प्रागेव प्रथमानकेतक शिखा वीरायितं च स्थितम् । शान्तं कुण्डलताण्डवं कुवलयद्वन्द्वं तिरो मीलितं वीतं विद्रुमसीत्कृतं नहि ततो जाने किमासीदिति ॥ ४२ ॥ गाढा श्लेष निपीडनान्निपतितामालोक्य हारावलीं स्थातुं हन्त भिया क्षणं निबिडया नीव्यापि न व्यापृतम् । विश्लेषज्वरवेदनासहनयोः कारुण्यकीर्णात्मना क्वापि प्रापितयोः समागमसुखं यूनोर्मनोजन्मना ॥ ४३ ॥ हारस्रुट्यति कङ्कणं निपतति सक्कौमुदी क्लिश्यति ध्वान्तं धावति सीत्करोति रजनीजानिर्वली भज्यति ।