________________
४८१
। स्वोपज्ञलघुवृत्तिः। विष्वचो विषुश्च ।७।२।३१।।
अस्मान्मत्वर्थे नः स्यात् । विषुश्चास्य । विषुणः रविर्वायुर्वा। विष्वग्वाम्॥ ३१॥
लक्ष्म्या अनः। ७।२।३२। मत्वर्थे स्यात् । लक्ष्मणः । लक्ष्मीवान् ॥ ३२॥ प्रज्ञाश्रद्धा वृत्तेर्णः । ७।२।३३। • एभ्यो मत्वर्थे णः स्यात् । प्राज्ञः । प्रज्ञावान् । श्राद्धः । श्रद्धावान आर्चः । अर्चावान् । वार्तः । वृत्तिमान् ॥ ३३ ॥ ज्योत्स्नादिभ्योऽण । ७।२।३४। मत्वर्थेऽण् स्यात् । ज्योत्स्नी रात्रिः । तामिस्री ॥ ३४ ॥
सिकताशर्करात । ७।२।३५। आभ्यां मत्वर्थेऽण् स्यात् । सैकतः । सिकतावान् । शार्करः॥
इलश्च देशे । ७।२।३६ । सिकताशर्कराभ्यां देशे मत्वर्थे इलाणौ स्याताम् । सिकतिलः । सैकतः। सिकतावान् । शर्करिलः । शार्करो देशः । शर्करावान् ॥३६॥
धुद्रोर्मः। ७।२।३७। आभ्यां मत्वर्थे मः स्यात् । घुमः । द्रुमः ।। ३७ ॥ काण्डाण्डभाण्डादीरः। ७।२।३८।
एभ्यो मत्वर्थे ईरः स्यात् । काण्डीरः । काण्डवान् ।आण्डीरः। भाण्डीरः ॥ ३८॥ __ कच्छ्वा डुरः। ७।२।३९ ।