SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ८७८ - योगशास्त्रे . हेतुर्विश्वकवत्सलः- वम लाति स्नेहेनादत्ते वत्सला गौस्त इन सकलजगन्नौतिहेतुत्वाद् धर्मोऽपि वत्सलः ॥ १० ॥ .... इदानीमनर्थनिवृत्तेः प्राक्कतैरप्याकाश्यमाणत्वाद् धर्मफलमाह - रक्षोयक्षोरगव्याघ्रव्यालानलगरादयः । नापकर्तमलं तेषां यैर्धर्मः शरणं श्रितः ॥ १०१ ॥ स्पष्टः ॥ १०१॥ इदानी प्रधानभूतामनर्थनिवृत्तिमर्थप्राप्तिं च धर्मस्य फल माह धर्मो नरकपातालपातादवति देहिनः । • धर्मों निरुपमं यच्छत्यपि सर्वनवैभवम् ॥१०२॥ . नरकपातरक्षणलक्षणा अनर्थनिवृत्तिः सर्वज्ञवैभवप्राप्तिश्चाथप्राप्तिप्रधानभूता धर्मस्य फलम्, शेषं त्वानुषङ्गिकमुक्तमिति । अत्रान्तरझोकाः प्रयं दशविधो धर्मो मिथ्याग्भिन वीक्षितः । योऽपि कश्चित् कचित् प्रोचे सोऽपि वानात्रवर्णनम् ॥ १ ॥ तत्त्वार्थो वाचि सर्वेषां केषाञ्चन मनस्यपि। . .. क्रिययापि नरोनर्ति नित्यं जिनमतस्मृशाम् ॥ २ ॥ वेदशास्त्रपराधीनबुद्धयः सूत्रकण्ठकाः ।। न लेशमपि जानन्ति धर्मरत्वस्य तत्त्वतः ॥ ३ ॥ गोमेधनरमेधाश्वमेधाद्यध्वरकारिणाम् । याचिकानां कुतो धर्मः प्राणिघातविधायिनाम् ? ॥ ४ ॥
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy