SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ . चतुर्थः प्रकाशः । ८७७ स्पष्टः। मिथ्यादृशोऽप्याहुः ;-अग्नेहप्रज्वलनम्, . वायोस्तिर्यक् पवनमदृष्टकारितम् इति ॥ ७॥ . ............. तथानिरालम्बा निराधारा विश्वाधारो वसुन्धरा। यच्चावतिष्ठते तत्र धर्मादन्यद् न कारणम् ॥ ६८॥ निरालम्बा पालम्बनस्य रज्ज्वादेरभावात, निराधारा पाधारस्य . शेषकूर्मवराहदिक्कुजरादेः प्रमाणानुपपनत्वेनाभावात्, विश्वस्य चराचरभेदस्य जगत प्राधारः, वसुन्धरा पृथ्वी यदवतिष्ठते नाध: पतति, तत्र धर्मादन्यद न कारणम्, अन्वयव्यतिरेकाभ्यामन्यस्य कस्यचिदवस्थानहेतोरभावात् ॥२८॥ तथासूर्याचन्द्रमसावेतौ विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन् नूनं धर्मस्य शासनात् ॥ ६ ॥ स्पष्टः ॥ ८ ॥ अबन्धूनामसौ बन्धूरसखौनामसौ सखा । अनाथानामसौ नाथो धर्मो विश्वैकवत्सलः ॥१०॥ प्रबन्धूनां बन्धुरहितानामसी धर्मो बन्धुः, बन्धुकार्यस्य विपदुत्तारणादः करणात् ; असखीनां मित्ररहितानामसौ सखा, प्रत्युत्पादकत्वात् ; अनाथानामखामिकानामसौ नाथः, योगक्षेमकारित्वात, यदाह-योगक्षेमक्लद नाथः इति । पत्र
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy