________________
चतुर्थः प्रकाशः ।
पाताय पातो राज्यादिभ्रंशः, बन्धाय बन्धो नियमनम्, वधाय वधः प्राणनिग्रहः । तत्र कुलघातायेन्द्रियाणि रावणस्येव । तस्य निर्जितेन्द्रियस्य परदारान् रिरंसमानस्य रामलक्ष्मणाभ्यां कुल-चयः कृत इत्युक्तपूर्वम् । पातायेन्द्रियाणि सोदासस्येव । सहि राज्यं पालयन् मांसप्रियतया नानाविधैमीसेरात्मानं प्रीणयनेकदा सूपकारैः संस्कृते मांसे बिडालादिभिर्भक्षिते सति तस्मिन् दिने धार्मिकैः श्रावकजने राजानं प्रसाद्यामारिपटहे दापिते जीववधाभावादन्यमांसाप्राप्तौ सुलभस्य कस्यचिडिम्भस्य मांसं परिवेष्य राजा परितोषितः । स चैकान्ते सूपकारान् शपथदानपूर्वकं पप्रच्छ । तैश्च यथास्थिते कथिते मानुषमांसग्टया सकलन गरे डिम्भमानुषग्रहणाय स्वपुरुषान् नियुक्तवान् । एतच्च ज्ञात्वा पौरजानपदेर्मन्त्रिभित्र भीतभीतैरेकमतीभूय मद्यपानप्रमत्तो बङ्घाऽरण्ये विमुक्तः । स च राज्यात्, कुलात् परिवाराच्च पतितोऽरण्ये वापद इव दुःखमनुबभूव । बन्धायेन्द्रियाणि चण्ड प्रद्योत स्येव । वधाय मृत्यवे इन्द्रियाणि रावणस्येवेत्युक्त पूर्वम् ।
अत्रान्तरश्लोकाः ―
इन्द्रियैः स्वार्थविवशैः कस्को नैव विडम्बाते | अपि विज्ञातशास्त्रा'र्थाचेष्टन्ते बालका इव ॥ १ ॥
(१) ख घर्थावद्यन्ते ।
のんの