SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे कथमजितानीन्द्रियाणि नरकं नयन्तीत्याहइन्द्रियैर्विजितो जन्तुः कषायैरभिभूयते। वीरैः कृष्टष्टकः पूर्व वप्रः कै: कैर्न खण्डाते ? ॥२६॥ . इन्द्रियाणि जेतुमशक्तोऽत एव तैर्विजितः, यान् जेतुमिन्द्रियजय उपदिश्यते तैरेव प्रत्युत कषायैरभिभूयते । कषायाभिभूतश्च नरकं यातीति सुप्रसिद्धमेव । ननु यदीन्द्रियजयेऽशक्ती जन्तुः, तर्हीन्द्रियजनितैव बाधास्तु, कोऽवसरः कषायबाधायाः ? इत्याशङ्कामपनतं दृष्टान्तमाह-वीरविक्रान्तः कष्टा इष्टका यस्मात् स कष्टेष्टक: वप्रः प्राकारः पूर्व प्रथमम्, पश्चात् कैः करवीररपि एकैकेष्टकाशकलकर्षणेन न खण्डाते न खण्डशो नौयते । अयमर्थ:-यथा वीरपुरुषपातितच्छिद्रः प्राकार: कर्मकरप्रायाणामपि गम्यो भवति तथैव वप्रप्रायः प्राणी वीरप्रायैरिन्द्रियैभग्नप्राय इतरपुरुषप्रायः कषायैर्बाध्यते, इन्द्रियानुसारित्वात् कषायाणाम् ॥ २६ ॥ न केवलमनिर्जितैरिन्द्रियैः कषायाभिभूतो जन्तुर्नरके नीयते, यावदिहलोकेऽपि प्रनिर्जितानौन्द्रियाण्यपायकारणान्येवेत्याहकुल वाताय पाताय बन्धाय च वधाय च । अनिर्जितानि जायन्ते करणानि शरीरिणाम् ॥२०॥ शरीरिणां जन्तूनां करणानीन्द्रियाणि अनिर्जितानि अदान्तानि जायन्ते। कस्मै ? । कुलघाताय कुलघातो वंशोच्छेदः,
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy