SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ म योगमा दुर्जरायपि दुःखयाण्यपि। -निर्जराहेतुत्वं तपस उपलक्षणम्, संवरहेतुत्वादप्यस्य, यदाह वाचकमुख्यः-तपसा निर्जरा च तपसा निर्जरा संवरश्च भवतीत्यर्थः । तपश्च संवरत्वादभिनवकर्मोपचयप्रतिषेधकम्, निर्जरणफलत्वाञ्चिरन्तनकर्मनिर्जरकम्, तथा च निर्वाणप्रापकमिति। অগালী : यथा हि पिहितहारमुपायैः सर्वतः सरः । नवनवैजलापूरैः पूर्यते नैव सर्वथा ॥ १ ॥ तथैवात्रवनिरोधेन कर्मद्रव्ये नवनवैः । अयं न पूर्यते जीवः संवरेण समावृतः ॥ २ ॥ यथैव सरसस्तोयं संशष्यति पुरा चितम् । दिवाकरकरालातपातिसन्तापितं मुहुः ॥ ३ ॥ तथैव पूर्वसम्बडं सर्वकर्म शरीरिणा। तपसा ताप्यमानं सत् क्षयमायाति तत्क्षणात् ॥ ४ ॥ निर्जराकरणे बाह्याच्छ्रेष्ठमाभ्यन्तरं तपः । तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः ॥ ५ ॥ .चिरार्जितानि भूयांसि प्रबलान्यपि तत्क्षणात् । कर्माणि निर्जरन्त्येव योगिनो ध्यानशालिन: ॥ ६ ॥ यथैवोपचिती दोषः शोषमायाति लखनात् । तथैव तपसा कर्म क्षीयते पूर्वसच्चितम् ॥ ७ ॥ यथा वा मेघसाताः प्रचण्डपवनहताः । इतस्ततो विशौर्यन्ते कर्माणि तपसा तथा ॥ ८॥
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy