SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रकाशः । සිම් श्राभ्यन्तरः कषायाणाम्, मृत्युकाले शरीरस्य च व्यागः । नमु व्युत्सर्गः प्रायश्चित्तंमध्य एवोक्तस्तत् किं पुनरत्र वचनेन ? | सत्यम्, सोऽतिचारविशुषार्थ उक्तः, अयं तु सामान्येन निर्जरार्थ इत्यपौनरुक्त्यम् । अथ शुभध्यानम् — शुभमार्तरौद्र विवेकेन शुभरूपं धर्म-शुक्तरूपं ध्यानम् । अत्रार्तरौद्रध्याने उक्तपूर्वे । धर्मं शुल्कं च शुभध्याने, वक्ष्येते । इत्यनेन प्रकारेण षोढाऽऽभ्यन्तरं तपः । इदं चाभ्यन्तरस्य कर्मणस्तापकत्व।त्, अभ्यन्तरेरेवान्तर्मुखैर्भगवद्भिर्ज्ञायमानत्वाञ्चाभ्यन्तरम् । ध्यानस्य सर्वेषां तपसामुपरि पाठो मोक्षसाधनेष्वस्य प्राधान्यख्यापनार्थ:, यदाह ; -- 'संवरविणिज्जराओं मोक्खस्स पहों तवो पही तासि । ज्माणं च पहाणंगं तवस्स तो मोक्खहेऊ तं ॥ १ ॥ ८० ॥ अथ तपसो निर्जराहेतुत्वं प्रकटयन्नाह - दीप्यमाने तपोवनौ बाह्ये चाभ्यन्तरेऽपि च । यमौ जरति कर्माणि दुर्जराण्यपि तत्क्षणात् ॥ ६१ ॥ तप एव वह्निः पापवनदाहकत्वात् तपोवस्तिस्मिन् दौंप्यमाने प्रबलीभूते । किं विशिष्ट ? | बाह्येऽनशनादौ, आभ्यन्तरे प्रायश्वित्तादौ सति । यमी संयमवान् जरति भस्मसात् करोति । अन्तर्भूतण्यर्थत्वात् सकर्मकता । कर्माणि ज्ञानावरणीयादौन (१) संवर विनिर्जरे मोच्तस्य पन्थास्तपः पन्थास्तयोः । ध्यानं च प्रधानाङ्गं तपसस्ततो मोच हेतुस्तत् ॥ १॥
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy