SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ . । वाम योगबाजे योगादिश्वाचवहारेषेवं रहेषु सर्वतः। कमैद्रव्यप्रवेशो न जौवे संवरशालिनि ॥ ५ ॥ संवरादावहारनिरोधः संवरः पुनः । क्षान्त्यादिभेदाद बहुधा तथैव प्रतिपादितः ॥ ६॥ गुणस्थानेषु यो य: स्यात् संवरः स स उच्यते। . मिथ्यात्वानुदयादुत्तरेषु मिथ्यात्वसंवरः ॥ ७॥ . तथा देशविरत्यादौ स्यादविरतिसंवरः। . अप्रमत्तसंयतादौ प्रमादसंवरो मतः ॥ ८॥ प्रशान्तदीपमोहादौ भवेत् कषायसंवरः । - अयोगायकवलिनि सम्पूर्णो योगसंवरः ॥८॥ एवमात्रवनिरोधकारणं संवरः प्रकटित: प्रपञ्चतः । भावनागणशिरोमणिस्त्वयं भावनीय इह भव्यजन्तुभिः ॥ १० ॥ ॥संवरभावना ॥ ८५॥ अथ निर्जराभावनामाहसंसारबौजभूतानां कर्मणां जरणादिह । निर्जरा, सा स्मृता देधा सकामा कामवर्जिता॥८६॥ जन्तूनां चतुर्गतिभ्रमणरूपस्य संसारस्य बीजभूतानां कारणभूतानां कर्मणां जरणादात्मप्रदेशेभ्योऽनुभूतरसकर्मपुलपरिशाटनादिह प्रवचने निर्जरोचते। सा निर्जरा इंधा-सह कामेन 'निर्जरा मे भूयात्' इत्यभिलाषेण युक्ता सकामा, न पुनरिहलोकपरलोकफलादिकामेन युक्ता, तस्य प्रतिषिहत्वात,
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy