________________
योगशास्त्र रुग्जरामरणैर्ग्रस्सा नीचकर्मकदार्थताः। तां तां दुःखदशां दीना: प्रपद्यन्ते दयास्पदम् ॥ ४७ ॥ जरा रुजा मृतिर्दास्यं न तथा दुःखकारणम् । गर्भवासो यथा घोरनरके वाससन्निभः ॥ ४८ ॥ सूचिभिरग्निवर्णाभिभिन्नस्य प्रतिरोम यत् । दुःखं नरस्याष्टगुणं तद् भवेद् गर्भवासिनः ॥ ४८ ॥ योनियन्त्राद् विनिष्क्रामन् यद् दुःखं लभते भवी। गर्भवासभवाद् दुःखात् तदनन्तगुणं खलु ॥ ५० ॥ बाल्ये मूत्रपुरीषाभ्यां यौवने रतचेष्टितैः । वाक्ये खासकासाद्यैर्जनो जातु न लज्जते ॥ ५१ ॥ पुरीषशूकरः पूर्व ततो मदनगर्दभः । जराजरहवः पश्चात् कदापि न पुमान् पुमान् ॥ ५२ ॥ स्याच्छेशवे माटमुखस्तारुण्ये तरुणीमुखः ।। वृषभावे सुतमुखो मूर्यो नान्तर्मुखः क्वचित् ॥ ५३ ॥ . सेवाकर्षणवाणिज्यपाशुपाल्यादिकर्मभिः। क्षपयत्यफलं जन्म धनाशाविह्वलो जनः ॥ ५४ ॥ क्वचिच्चौर्य क्वचिद् द्यूतं क्वचिद् नौचर्भुजङ्गता। मनुष्याणामहो ! भूयो भवभ्रमनिबन्धनम् ॥ ५५ ॥ मुखित्वे कामललितैर्दु:खित्वे दैन्यरोदनैः । नयन्ति जन्म मोहान्धा न पुनई र्मकर्मभिः ॥ ५६ ॥ अनन्तकर्मप्रचयक्षयक्षममिदं क्षणात् । मानुषत्वमपि प्राप्ताः पापा: पापानि कुर्वते ॥ ५७ ॥
नगदभः ।