________________
चतुर्थः प्रकाशः । उत्कीस्यन्ते त्वचयद्भिः प्राप्यन्ते च भटिवताम् । ... भोक्तुकामैर्विपच्यन्ते निगाल्यन्ते वसाधिभिः ॥ ३६॥ स्थलचारिषु चोत्पन्ना अबला बलवत्तरैः। मृगाद्याः सिंहप्रमुखायन्ते मांसकाजिभिः ॥ ३७॥ मृगयासक्तचित्तैश्च क्रीडया मांसकाम्यया । नरैस्तत्तदुपायेन हन्यन्तेऽनपराधिनः ॥ ३८ ॥ क्षुधापिपासाशीतोष्णातिभारारोपणादिना । कशाङ्कुशप्रतोदैश्च वेदनां प्रसहन्त्यमौ ॥ ३८ ॥ खेचरास्तित्तिरशुककपोतचटकादयः । श्ये नसिञ्चानम्रध्राद्यैर्ग्रस्यन्ते मांसग्रनुभिः ॥ ४० ॥ मांसलुब्धैः शाकुनिकर्नानोपायप्रपञ्चतः । - . संग्टह्य प्रतिहन्यन्ते नानारूपैविडम्बनैः ॥ ४१ ॥ जलाग्निशस्त्रादिभवं तिरश्चां सर्वतो भयम् । कियद वा वर्ण्यते स्वस्वकर्मबन्धनिबन्धनम् ॥ ४२ ॥ मनुष्यत्वेऽनार्यदेश समुत्पन्नाः शरीरिणः । तत् तत् पापं प्रकुर्वन्ति यद वक्तुमपि न क्षमम् ॥ ४३ ॥ . उत्पन्ना पार्यदेशेऽपि चण्डालखपचादयः । पापकर्माणि कुर्वन्ति दुःखान्यनुभवन्ति च ॥ ४४ ॥
आर्यवंशसमुद्भूता अग्यनार्यविचेष्टिताः । दुःखदारिद्रयदौर्भाग्यनिर्दग्धा दुःखमासते ॥ ४५ ॥ परसम्मत्प्रकर्षणापकर्षेण स्वसम्पदाम् । परप्रेष्यतया दग्धा दुःखं जीवन्ति मानवाः ॥ ४६ ॥ ....