________________
चतुर्थः प्रकाशः । उपसंहरतितदवश्यं मनःशुद्धिः कर्तव्या सिद्धिमिच्छता। तपःश्रुतयमप्रायैः किमन्यैः कायदण्डनैः ॥४४॥ तत् तस्मात् अवश्यं निश्चयेन मन:शुद्धिः कर्त्तव्या। सिहं मोक्षमभिलषता। आवश्यकत्वे हेतुमाह-किमन्यैः कायदण्डनैः । कायो दण्डयत एभिरिति कायदण्डनास्तैः, कैः ?, तप:श्रुतयमप्राय:- तपोऽनशनादि, श्रुतमागमः, यमा महाव्रतानि । प्रायग्रहणाद् नियमादयो गृह्यन्ते। अत्रेदमनुयोक्तव्यम्-केयं मनसः शुद्धिः ? लेश्याविशुद्या मनसो निर्मलत्वम् । काः . पुनलेश्याः ? कृष्णनौलकापोततेजःपद्मशुक्लवर्णद्रव्यसाचिव्यादामनस्तदनुरूप: परिणामः, यदाह -
कृष्णादिद्रव्यसाचिव्यात् परिणाको य प्रात्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्तते ॥ १ ॥
तत्र कृष्णवर्णपुगलसबिधान य आत्मनोऽशुद्धतमः परिणाम: मा · कृष्णलेश्या। नौलद्रव्यमबिधाने य प्रात्मनोऽशुद्धतरः परिणामः सा नौललेश्या। कापोतवर्णद्र व्यसानिध्यात्तदनुरूपोऽशुद्ध प्रात्मपरिणाम: कापोतलेश्या । . तेजोवर्णट्रव्यसानिध्यात्तदनुरूप: शुद्ध प्रात्मपरिणामस्तेजीलेश्या । पद्मवर्णद्रव्यसानिध्यात्तदनुरूपः शुद्धतर आत्मपरिणामः पालेश्या । शक्लवर्णद्रव्यसान्निध्याच्छुद्धतम प्रामपरिणामः.... एकलेश्या ।