SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ हतीयः प्रकाश: । सुविधिः, तथा गर्भस्थे भगवति जनन्धप्येवमिति सविधिः, पुष्पकलिकामनोहरदन्तत्वात् पुष्पदन्त इति हितीयं नाम । ८ । सकलसत्त्वसन्तापहरणाच्छीतलः, तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नाऽचिकित्स्यपित्तदाहो जननीकरस्पर्शादुपशान्त इति शीतलः । १० । सकलभुवनस्याऽपि प्रशस्यतमत्वेन श्रेयान, श्रेयांसावंसावस्येति पृषोदरादित्वात् श्रेयांसो वा, तथा गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताधिष्ठितशय्या जनन्या आक्रान्तेति श्रेयो जातमिति श्रेयांसः ।११। वसवो देवविशेषाः, तेषां पूज्यो वसुपूज्यः, प्रज्ञादित्वादणि वासुपूज्यः, तथा गर्भस्थेऽस्मिन् वसु हिरण्य तेन वासवो राजकुलं पूजितवानिति वासुपूज्यः, वसुपूज्यस्य राजोऽयमिति वा “तस्येदम्” ॥ ६।३।६० ॥ इत्यणि वासुपूज्यः । १२ । विगतमलो विमल:, विमलानि वा ज्ञानादौन्यस्येति विमलः, तथा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विमलः । १३ । अनन्त कमांशान् जयति, अनन्तर्वा ज्ञानादिभिर्जयति अनन्तजित्, तथा गर्भस्थे जनन्या अनन्तरत्नदाम दृष्टम्, जयति च त्रिभुवनेऽपौति अनन्तजित्, भीमो भौमसेन इति न्यायादनन्त इति । १४ । दुर्गती प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तथा गर्भस्थे जननी दानादिधर्मपरा जातेति धर्मः । १५ । शान्तियोगात, तदात्मकत्वात्, तत्कर्तृत्वाद्दा शान्तिरिति, तथा गर्भस्थे पूर्वोत्पनाऽशिवशान्तिरभूदिति शान्तिः । १६। कुः पृथ्वी, तस्यां स्थितवानिति निरुक्तात् कुन्युः, तथा गर्भस्थे जननी रत्नानां कुन्यु राशिं दृष्टवतीति कुन्थुः । १७ ।
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy