________________
तृतीयः प्रकाशः ।
ज्ञानाङ्गावार्हत इत्यर्थः, अनेन ज्ञानातिशय उक्तः ; तत्संख्यामाहचतुर्विंशतिमपि अपिशब्दादन्यानपि किंविशिष्टान् लोकस्योझोतकरान् लोक्यते प्रमाणेन दृश्यत इति लोकः, पञ्चास्तिकायात्मकस्तस्योस्रोतकरणशीलान् केवलालोकदीपेन सर्वलोकप्रकाशकरणशीलान् इत्यर्थः, ननु केवलिन इत्यनेनैव गतार्थमेतल्लोको - द्योतकरणशीला एव हि केवलिनः । सत्यम् । विज्ञानाऽद्वैत निरासेनोह्योतकराः, उद्योत्यस्य भेददर्शनार्थम्, लोकोह्योतकरत्वं च तत्स्तावकानामुपकाराय न चाऽनुपकारिणः कोऽपि स्तौति इत्युपकारकत्वप्रदर्शनायाह— धर्मतीर्थकरान् ; धर्म उक्तस्वरूपः तीर्य्यतेऽनेन तीर्थं धर्मप्रधानं तीर्थं धर्मतोर्थं धर्मग्रहणाद् द्रव्यतीर्थस्य नद्यादेः शाक्यादिसम्बन्धिनश्च अधर्मप्रधानस्य परिहारः, तत्करणशोला धर्मतोर्थकराः तान् सदेवमनुजाऽसुरायां पर्षदि सर्वभाषापरिणामिन्या वाचा धर्मतीर्थप्रवर्तका नित्यर्थः, अनेन पूजातिशयो वागतिशयश्वोक्तः । अपायापगमातिशयमाह - जिनान्
रागद्वेषादिजेतृनित्यर्थः ।
यदुक्तं कीर्तयिष्यामीति तत्कीर्तनं कुर्वन्नाह -
उसभमजिनं च वंदे संभवमभिनंदणं च सुमई च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥ २ ॥ सुविहिं च पुष्पदंतं सोअल सिज्जंस वासुपुज्जं च । विमलमणतं च जिणं धम्मं संतिं च वंदामि ॥ ३ ॥ कुंथुं अरं च मल्लिं वन्दे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्ठनेमिं पासं तह वज्रमाणं च ॥ ४ ॥
६३२