________________
પ્ર
योगशास्त्रे
बाधनाच्चातिचारः ४ ।
तथा
हिरण्यहेम्नोर्दानाद्दितरणाद
गृहीतसंख्याया अतिक्रमः । यथा केनापि चतुर्मासाद्यवधिना हिरण्यादिसंख्या प्रतिपन्ना, तेन च तुष्टराजादेः सकाशात् तदधिकं तल्लब्धं तदन्यस्मै व्रतभङ्गभयाद् ददाति पूर्णेऽवधौ ग्रहीष्यामीत्यभिप्रायेणेति व्रतसापेक्षत्वादतिचार: । एष गृहीतसंख्याऽतिक्रमः, पञ्चधाऽपि पञ्चभिरपि प्रकारैः प्रतिपन्नव्रतस्य श्रावकस्य न युज्यते, कर्तुमिति शेषः, व्रतमालिन्यहेतुत्वात् । यञ्चधेत्युपलक्षणमन्येषां सहसाकारानाभोगादीनाम् । उक्ता अणुव्रतानां प्रत्येकं पञ्च पञ्चातिचाराः ५ ॥ ८६ ॥
अथ गुणव्रतानामवसरः, तत्त्राऽपि प्रथमगुणव्रतस्य दिग्विरतिलक्षणस्याऽतिचारानाह
-
स्मृत्यन्तर्धानमूर्ध्वाधस्तिर्यग्भागव्यतिक्रमः । चेववृद्दिश्च पञ्चेति स्मृता दिग्विरतिव्रते ॥ ६७॥ दिग्विरतिव्रते पञ्चातिचाराः, इत्यनेन रूपेण, स्मृताः पूर्वाचार्यैः । तद्यथा - स्मृतेर्योजनशतादिरूपदिक्परिमाणविषयाया अतिव्याकुलत्व प्रमादित्वमत्यपाटवादिनाऽन्तर्धानं भ्रंशः । तथाहिकेनचित् पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत्, गमनकाले च स्पष्टतया न स्मरति, किं शतं परिमाणं कृतमुत पञ्चाशत् ? तस्य चैत्रं पञ्चाशतमतिक्रामतोऽतिचारः शतमतिक्रामतो भङ्गः, सापेक्षत्वान्निरपेक्षत्वाच्चेति । तस्मात् स्मर्तव्यमेव गृहीतव्रतं, स्मृतिमूलं हि सर्वमनुष्ठानमिति प्रथमो