________________
योगशास्त्रे लोहताम्रसीसकत्रपुमृद्भाण्डत्वचिसारविकारोदशिकाष्ठमञ्चकम-.. ञ्चिकामसूरकरथशकटहल प्रभृति द्रव्यं, तस्य कुप्यस्य । गौरनड़ानऽनडाही च, स आदिर्यस्य दिपदचतुष्पदवर्गस्य स गवादिः ।
आदिशब्दान्महिषमेषाऽविककरभरासभतुरगहस्त्यादिचतुष्यदानां हंसमयूरकुर्कुटशुकसारिकापारापतचकोरादिपक्षिदिपदानां पत्नीउपरुद्धादासीदासकर्मकरपदात्यादिमनुष्याणां च संग्रहः । क्षेत्र सस्योत्पत्तिभूमिः, तत् त्रिविधं, सेतुकेतूभयभेदात् । तत्र सेतुक्षेत्र यदरघट्टादिजलेन सियते, केतुक्षेत्रमाकाशोदकपातनिष्पाद्यसस्यम् ; उभयमुभयजलनिष्याद्यसस्यम् । वास्तु ग्रहादि ग्रामनगरादि च । तत्र ग्रहादि त्रिविधं ; खातं भूमिग्रहादि, उच्छ्रितं प्रासादादि, खातोच्छ्रितं भूमिग्टहस्योपरि ग्रहादिसनिवेशः । क्षेत्रं च वास्तु चेति समाहारबन्दः । तथा हिरण्यं रजतं, घटितं अघटितं चाऽनेकप्रकारं पायादि, एवं सुवर्णमपि, हिरण्यं च हेम चेत्यत्राऽपि समाहारः । संख्या व्रतकाले यावज्जीवं चतुर्मासादिकालावधि वा यत्परिमाणं ग्रहीतं तस्या अतिक्रम उल्लङ्घनं संख्यातिक्रमोऽतिचार: ॥ ८५ ॥ ननु प्रतिपन्नव्रतसंख्याऽतिक्रमो भङ्ग एव स्यात्, कथमतिचारः ?
इत्याहबन्धनाद्भावतो गर्भाधोजनाद् दानतस्तथा ।
प्रतिपन्नव्रतस्यैष पञ्चधाऽपि न युज्यते ॥ ६६ ॥ न साक्षात् संख्याऽतिक्रमः, किन्तु व्रतसापेक्षस्य बन्धनादिभिः