________________
वाजीकरणतन्त्रम् ।
२५३
सुवर्ण भस्म को खांड तथा वचा चूर्ण के साथ अथवा आंवलों के चूर्ण के साथ अथवा त्रिफला तथा घृत के साथ निरन्तर सेवन करना रसायन है । स्वर्ण भस्म की मात्रा अष्टमांश रत्ती से चतुर्थांश रत्ती तक ॥ ३९४ ॥
इति आयुर्वेदाचार्य श्रीजयदेव विद्यालंकार विरचितायां
परिमलाख्यायां चिकित्साकलिकाव्याख्यायां
रसायनतन्त्रं समाप्तम् ।
-:०:--
अथ वाजीकरणतन्त्रम् ।
रसायनतन्त्रमभिधायेदानीं यथोद्देशं वाजीकरणतन्त्रं प्रारभ्यते
वाजशब्देन शुक्रमुच्यते । अवाजिनो वाजिनः क्रियन्त इति वाजीकरणम् । तदर्थं तन्त्रं वाजीकरणतन्त्रम् । तश्च मधुर स्निग्धबृंहणीयानि बलवतो हर्षकारिणीभिः शतावरीनागबलाविदारिकादिभिरुपयुक्तानि भवन्तीत्याह
शतावरी नागबलाविदारिकात्रिकण्टकैरामलकीफलान्वितैः ।
विचूर्णितैः पञ्चभिरेकशः पृथक् प्रकल्पितैर्वा घृतमाक्षिक प्लुतैः ॥ ३९५ ॥
-
इति प्रयोगाः षडिमे भिषग्वरैरुदीरिता शर्करया समायुताः । नृणामकप्रमदाः प्रसर्पताम्प्रधानधातोरेतिरेककारिणः ॥ ३९६॥
शतवार्यादिभिः पञ्चभिः विचूर्णितैः घृतमाक्षिकप्लुतैः पृथक् कल्पितैरिमे पञ्च योगा भवन्ति । पञ्चभिस्त्वेकशः एकीकृतैः प्रयोगः इति षट् प्रयोगाः । शर्करया समायुताः भिषजां वराः श्रेष्ठा भिषग्वराः तैरुदीरिताः कथिताः । केषां ? नॄणां प्राणिनां अनेकप्रमदाः स्त्रियः प्रसर्पतां गच्छतां प्रधानधातोरतिरेककारिणः । शतावरी बहुपुत्रिका । नागबला गोपाल कारिका । विदारीक्षुविदारिका प्रसिद्धा । त्रिकण्टको गोक्षुरक इति ॥ ३९५–३९६ ॥
१ - र विरेककारिण इति पाठान्तरम् ।