________________
२५०
चिकित्साकलिका। अधुना अलर्कविषचिकित्सतमवोचत्
तैलार्कदुग्धपललैः सगुडैरमीभियोगः समैरिति चतुर्भिरलर्कदष्टे । स्यात्सारमेयविषहा शरपुङ्खजो वा
धत्तरबीजयुतपिष्टकपूपली वा ॥ ३८९ ॥ ___ अलर्कः कुक्कुरस्तेन दष्टस्तस्मिम् तैलादिभिश्चतुर्भिः समैरमीभिर्योगः स्यात् तैलं तिलतैलं, अर्कदुग्धमर्कक्षीरम् । पललं तिलानां चूर्ण सगुडैर्गुडसहितैः। शरपुंखायाः धत्तरबीजैश्च तन्दुलपिष्टकपूपली वा। सारमेयविषहा स्यात् । सारमेयः कुक्कुरस्तस्य विषं तद्धन्तीति । इति तीसटसुतचन्द्रटविरचितायां चिकित्साकलिकाटीकायां
विषतन्त्रं समाप्तम् ॥ . तिलतैल, मदार का दूध, पलल (तिलपिष्टक ), गुड; इन चारों को समपरिमाण में मिलाकर अलर्कदष्ट (जिस को कुत्ते ने काटा है) पुरुष को सेवन कराना चाहिये । अथवा शरपुंखा (सरफोंका) की जड़ का चूर्ण या धत्तुरबीजमिश्रित चांवलों के आटे से बनाई हुई पूपली के सेवन से कुत्ते का विष नष्ट होता है ॥ ३८९ ॥
अथ रसायनतन्त्रम् । ' इदानीं विषतन्त्रानन्तरं यथोद्देशं रसायनाधिकार:
अथ किमिदं रसायनं नाम ? उच्यते । रसादीनां शुक्रान्तानां धातूनामयनमाप्यायनं रसायनम् । तदर्थ तन्त्रं रसायनतन्त्रम् । तत्त द्विविधम् । कुटीप्रावेशिकं वातातपिकं च । पुनश्च त्रिविधम् काम्यं नैमित्तिकमाजरकं च । तच्च पूर्वे वयसि मध्ये वा स्निग्धशुद्धशरीरस्य कर्त्तव्यं सुश्रुतात्-“पूर्वे वयसि मध्ये वा मनुष्यस्य रसायनम् । प्रयुञ्जीत भिषक् प्राज्ञः स्निग्धशुद्धतनोः सदा” इति । तत्तमहाप्रभावानामौषधीनां भल्लातकशिलाजतुपिप्पलीगुग्गुलुरसोनसुवर्णामलकादीनामुपयोगात् भवतीत्याहसततमरुष्करपिप्पलिवृद्धिर्वपुषि निरामयतां विदधाति । कनकशिलाजतुगुग्गुलुधात्रीफललशुनत्रिफलाविधयश्च ॥ ३९० ।।