SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ कायचिकित्सा। १९५ वातरोग में सोंठ; बला, गिलोय, रास्ना, गोखरू, एरण्डमूल, शालपर्णी, इनके क्वाथ से तथा वातरक्त नामक रोग में गिलोय के क्वाथ से केवल विशुद्ध गुग्गुलु को ही सेवन करने से अत्यन्त लाभ होता है। अर्शस्सु मेहेषु कुष्ठिषु गुडाभयादियोगपञ्चकमाह... गुडाभया मूत्रहरीतकी वा हिता तथारुष्करवर्द्धमानम् । अर्शःसु मेहेषु हिता हरिद्रा धारिसे कुष्ठिषु मूत्रयुक्ता ॥ २८७ ॥ अर्शःसु अझरोगेषु गुडाभया गुडेन सहिता अभया हरीतकी हिता। मूत्रहरीतकी वा हिता। गोमूत्रद्रोणे लेहवत् सिद्धं हरीतकीशतं यथाबलं सक्षौद्रम् । तथारुष्करवर्द्धमानं हितम् । तथेति योगान्तरमाह-'अरुष्कराणि भल्लातकानि तेषां वर्द्धमानम् । कथं च तत् क्रियत इति तन्त्रान्तराद् व्याख्यायते—'ग्रीष्मकाले गृहीतान्यापूर्णरसान्यनामयीनि भल्लातकास्थीनि यवपल्ले माषपल्ले वा चतुर्मासावस्थितानि हेमन्ते प्रयोक्तमारभेत । मधुरस्निग्धशीतोपसंस्कृतशरीरः प्रथमं दश भल्लातकानि संकुट्य अष्टगुणेन सलिलेन क्वाथं कृत्वा अष्टभागावशेषं सदुग्धं घृतेनान्तर्मुखमभ्यज्य पिबेत् । तान्येकैकभल्लातोत्कर्षेण त्रिंशत्कृत्वा पुनरेकैकमपकर्षयेत् यावद्दशभल्लातकप्रयोगोऽतः परमुस्कर्षः कर्त्तव्यः। एवं भल्लातकसहस्रमुपयुज्यते इति न घटते । यथात्र घटते तथाविच्छिन्नपारम्पर्योपदेशात् व्याख्यायते । त्रिंशत् प्राप्तौ सप्तरात्रं त्रिंशत्प्रयोगः कर्त्तव्य इति । तत एकैकमपकर्षयेत् यावद्दश । पुनरन्यस्मिन्नपि दिने दशेति । एवं भल्लातकसहस्रमुपयुज्यत इति घटते । जीर्णे घृतदुग्धाभ्यां शालिषष्टिकोदनं भुञ्जीत प्रयोगान्ते च द्विस्तावत्पयसैवोपचारः । तस्य प्रयोगात् वर्षशतमजरं वपुः तिष्ठतीति । मेहेषु च प्रमेहेषु धात्री रसे आमलकीरसे हरिद्रा हिता । कुष्ठषु च कुष्ठरोगिषु मूत्रयुक्ता गोमूत्रेण हरिद्रा हितेति । “पीत्वा मासं वा पलांशां हरिद्रां मूत्रेणान्तं पापरोगस्य गच्छेदिति” ॥ २८७ ॥ ___ हरीतकी का गुड के साथ प्रयोग, अथवा मूत्रहरीतकी (२ द्रोण गोमूत्र में १०० हरडों के चर्ण को अवलेहवत पाक करके मधु के साथ), अथवा भल्लातकवर्द्ध
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy