SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ॥ ओ३म् ॥ श्री धन्वन्तरये नमः चिकित्साकलिका। COPERATOR TAGWAT CEOHDOOT अथ मङ्गलाचरणम्यं वेदान्तविदो वदन्ति पुरुषं वेदात्मकं योगिनः सांख्यास्तत्वविदो जपन्ति सततं यं पञ्चविंशात्मकम् । बौद्धा बोधमयं यदक्षरमिदं ध्यायन्ति तेजः परं स नः सततं करोतु विभवं वाचः परं मे शुभम् ॥ तीसटसूनुभक्तया चन्द्रटनामा भिषङ्मतश्चरणौ । नत्वा पितुश्चिकित्साकलिकाविवृति समाचष्टे ॥ व्याख्यातरि हरिचन्द्रे श्रीजेजटनाम्नि सति सुधीरे च । अन्यस्यायुर्वेदे व्याख्या धाटय समावहति ॥ __ धर्मार्थकाममोक्षपरैः सवेरेव सत्पुरुषैः शरीरारोग्याय महान् प्रयत्नः कर्त्तव्य इत्युक्तं हि चरकाचार्येण-"धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम् । रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च ॥" इति । तचायुर्वेदशास्त्रं सम्यगपरिक्षातमनाय, सम्यविदितं च महद् गुणाय संपद्यते । तथा चोक्तं चरकाचार्येण-“यथा विषं यथा शस्त्रं यथाग्निरशनिर्यथा। तथौषधमविज्ञातं विज्ञातममृतोपमम् ॥” तस्माद् यथावदर्थपरिज्ञानाय व्याख्यानश्रवणे महान् प्रयत्नः कार्य्यः । इत्यतः आयुर्वेदाङ्गगताया अमृतयोगमालायाश्चिकित्साकलिकाया व्याख्या प्रस्तूयते । सा च षड्विधा । तथा चोक्तम्-“उपोद्धातः पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं व्याख्या तन्त्रस्य षड्विधा ॥" तत्र उपोद्धातः शास्त्रसमुत्थानसम्बन्धाभिधेयप्रयोजनानि । भट्टेनाप्युकम्--"चिन्तां प्रकृतसिद्धार्थामुपोद्धातं प्रचक्षते" इति । तन्त्रस्यायुवैदस्य सम्बन्धो गुरुपूर्वक्रमलक्षणः स्वयमेव सुश्रुताचार्य्यप्रभृतिभि
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy