________________
परिभाषाप्रकरणम् । १११६९ ॥ प्रतीयते विधीयत इति प्रत्ययः । अविधीयमानोऽण् उदिच्च सवर्णस्य संज्ञा स्यात् । अत्राण परेण णकारेण ॥ कु चु टु तु पु एते उदितः । तदेवम् । अ इत्यष्टादशानां संज्ञा । तथेकारोकारौ । ऋकारस्त्रिंशतः । एवं लकारोऽपि । एचो द्वादशानाम् । एदैतोरोदौतोश्च न मिथः सावर्ण्यम् । ऐऔजिति सूत्रारम्भसामर्थ्यात् । तेनैचश्चतुर्विंशतेः संज्ञाः स्युरिति नापादनीयम् । नाज्झलाविति निषेधो यद्यप्याक्षरसमाम्नायिकानामेव तथापि हकारस्याऽऽकारो न सवर्णः । तत्राऽऽकारस्यापि प्रश्लिष्टत्वात् । तेन विश्वपाभिरित्यत्र हो ढः इति ढत्वं न भवति । अनुनासिकाननुनासिकभेदेन यवला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्वयोः संज्ञा ॥ तपरस्तकालस्य ।।११७०॥ तः परो यस्मात्स च तात्परश्वोच्चार्यमाणसमकालस्यैव संज्ञा स्यात् । तेन अत् इत् उत् इत्यादयः षण्णां षण्णां संज्ञा । ऋदिति द्वादशानाम् ॥ वृद्धिरादैच् ।
११॥१॥ आदैच्च वृद्धिसंज्ञः स्यात् ॥ अदेङ् गुणः ।।१।२ ॥ अदेङ् च गुणसंज्ञः स्यात् ॥ भूवादयो धातवः।१।३।१॥ क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः ॥ प्राग्रीश्वरान्निपाताः।१।४५६॥ इत्यधिकृत्य ॥ चादयोऽसत्त्वे ।।४।५७ ॥ अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युः ॥ प्रादयः ।।४।५८ ॥ अद्रव्यार्थाः प्रादयस्तथा ॥ उपसर्गाः क्रियायोगे ।१।४।५९॥ गतिश्च ।१।४।१०॥ प्रादयः क्रियायोगे उपसर्गसंज्ञा गतिसंज्ञाश्च स्युः ॥ प्र परा अप सम् अनु अव निस् निर दुस् दुर् वि आङ् नि अधि अपि अति सु उद् अभि प्रति परि उप एते प्रादयः ॥ न वेति विभाषा ।।१४४ ॥ निषेधविकल्पयोर्विभाषा संज्ञा स्यात् ॥ स्खं रूपं शब्दस्याऽशब्दसंज्ञा ।।१६८॥ शब्दस्य खं रूपं संज्ञि शब्दशास्त्रे या संज्ञा तां विना ॥ येन विधिस्तदन्तस्य ।।१।७२ ॥ विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य ॥ समासप्रत्ययविधौ प्रतिषेधः * ॥ उगिद्वर्णग्रहणवर्जम् * ॥ विरामोऽवसानम् ।१।४।११०॥ वर्णानामभावोऽवसानसंज्ञः स्यात् ॥ परः संनिकर्षः संहिता ।१।४।१०९॥ वर्णानामतिशयितः संनिधिः संहितासंज्ञः स्यात् ।। सुप्तिङन्तं पदम् ।।४।१४ ॥ सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ॥ हलोऽनन्तराः संयोगः ।।१७ ॥ अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ॥ हवं लघु ।१।४।१०॥ संयोगे गुरु ।।४।११ ॥ संयोगे परे ह्रखं गुरुसंज्ञं स्यात् ॥ दीर्घ च ।।४।१२ ॥
॥ इति संज्ञाप्रकरणम् ॥ इको गुणवृद्धी ।।१३॥ गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेक इति षष्ठयन्तं पदमुपतिष्ठते ॥ अचश्च ।१।२।२८ ॥ ह्रखदीर्घप्लुतशब्दैर्यत्राज्विधीयते तत्राऽच इति षष्ठ्यन्तं पदमुपतिष्ठते ॥ आद्यन्तौ टकितौ ।।१।४६ ॥ टिकितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः ॥ मिदचोऽन्त्यात्परः।१।१॥४७॥ अच इति निर्धारणे षष्ठी। अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात् ॥ षष्ठी स्थानेयोगा।१।१४९॥
१ भ्वादयतिङन्ते ॥२चादयोऽव्ययेषु पठ्यन्ते ॥