________________
सिद्धान्तकौमुद्याम् । गाथिविदथिकेशिगणिपणिनश्च ॥ १६६ संयोगादिश्च ॥ १६७ अन् ॥ १६८ ये चाभावकमणोः ॥ १६९ आत्माध्वानौ खे ॥ १७० न मपूर्वोऽपत्येऽवर्मणः ॥ १७१ ब्राह्मोऽजातौ ।। १७२ कार्मस्ताच्छील्ये ॥ १७३ औक्षमनपत्ये ॥ १७४ दाण्डिनायनहास्तिनायनार्वणिकजैमाशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि ॥ १७५ ऋव्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि ॥ "अङ्गस्यराल्लोपोविडनोर्वाक्रोशेणोयण्हुझल्भ्यस्थलिचमब्रेषुरऋतःपञ्चदश" ॥ इति षष्ठोऽध्यायः ॥
समतोऽध्यायः।
प्रथमः पादः। . १ युवोरनाकौ ॥ २ आयनेयीनीयियः फढखछयां प्रत्ययादीनाम् ॥ ३ झोऽन्तः ॥ ४ अदभ्यस्तात् ॥ ५ आत्मनेपदेष्वनतः ॥ ६ शीङो रुट् ॥ ७ वेत्तेर्विभाषा ॥ ८ बहुलं छन्दसि ॥ ९ अतो भिस ऐस् ॥ १० बहुलं छन्दसि ॥ ११ नेदमदसोरकोः ॥ १२ टाङसिङसामिनात्स्याः ॥ १३ उर्यः ॥ १४ सर्वनाम्नः स्मै ॥ १५ ङसिड्योः स्मास्मिनौ ॥ १६ पूर्वादिभ्यो नवभ्यो वा ॥ १७ जसः शी ॥ १८ औङ आपः ॥ १९ नपुंसकाच्च ॥ २० जश्शसोः शिः ॥ १॥ २१ अष्टाभ्य औश् ॥ २२ षड्भ्यो लुक् ॥ २३ खमोर्नपुंसकात् ॥ २४ अतोऽम् ॥ २५ अड्डतरादिभ्यः पञ्चभ्यः ॥ २५ नेतराच्छन्दसि ॥ २७ युष्मदस्मभ्यां ङसोऽश् ॥ २८ डेप्रथमयोरम् ॥ २९ शसो न ॥ ३० भ्यसोभ्यम् ॥ ३१ पञ्चम्या अत् ॥ ३२ एकवचनस्य च ॥ ३३ साम आकम् ॥ ३४ आत औ णलः ॥ ३५ तुह्योस्तातडाशिप्यन्यतरस्याम् ॥ ३६ विदेः शतुर्वसुः ॥ ३७ समासेऽनपूर्वे क्त्वो ल्यप् ॥ ३८ क्त्वापि च्छन्दसि ॥ ३९ सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः ॥ ४० अमो मश् ॥ २ ॥ ४१ लोपस्त आत्मनेपदेषु ॥ ४२ ध्वमो ध्वात् ॥ ४३ यजध्वनमिति च ॥ ४४ तस्य तात् ॥ ४५ तप्तनप्तनथनाश्च ॥ ४६ इदन्तो मसि ॥ ४७ क्त्वो यक् ॥ ४८ इष्ट्वीनमिति च ॥ ४९ साल्यादयश्च ॥ ५० आजसेरसुक् ॥ ५१ अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि ॥ ५२ आमि सर्वनाम्नः सुट् ॥ ५३ त्रेस्त्रयः ॥ ५४ ह्खनद्यापो नुट् ॥ ५५ षद् चतुर्थ्यश्च ॥ ५६ श्रीग्रामण्योश्छन्दसि ॥ ५७ गोः पादान्ते ॥ ५८ इदितो नुम्धातोः ॥ ५९ शे मुचादीनाम् ॥ ६० मस्जिनशोझलि ॥ ३ ॥ ६१ रधिजभोरचि ॥ ६२ नेट्यलिटि रधेः ॥ ६३ रभेरशब्लिटोः ॥ ६४ लभेश्च ॥ ६५ आङो यि ॥ ६६ उपात्प्रशंसायाम् ॥ ६७ उपसर्गात्खल्यञोः ॥ ६८ न सुदुभ्या केवलाभ्याम् ॥ ६९ विभाषा चिण्णमुलोः ॥ ७० उगिदचां सर्वनामस्थानेऽधातोः ॥ ७१ युजेरसमासे ॥ ७२ नपुंसकस्य झलचः ॥ ७३ इकोऽचि विभक्तौ ॥ ७४ तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य ॥ ७५ अस्थिदधिसक्थ्यक्ष्णामनकुदातः ॥ ७६ छन्दस्यपि दृश्यते ॥ ७७ ई च द्विवचने ॥ ७८ नाभ्यस्ताच्छतुः ॥