________________
३८६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावश्याः
द्वित्वादयः परार्धान्ता अपेक्षा बुद्धिजा मताः ॥ १०७॥
( मु० ) नित्यध्विति । नित्येषु परमाण्वादिषु एकत्वं नित्यम् । श्रनित्ये घटादावेकस्वमनित्यमित्यर्थः । द्वित्वादयो व्यासज्यवृत्तिसङ्ख्या अपेताबुद्धिजन्याः ॥ १०७ ॥
[ गुणग्रन्थे
( प्र० टी० ) सा चेयं सङ्ख्या एकत्वमारभ्य परार्धपर्यन्ता । तत्रैकत्वं द्विविधं नित्यमनित्यञ्च । अन्या सर्वा सङ्ख्याऽनित्यैवेति दर्शयितुमाह - परममूले "नित्येष्वि "ति । तदेवं विवृणोति - नित्येष्वित्यादिना स्पष्टम् । अपेक्षा बुद्धिजाः = अपेक्षाबुजिन्यात एवानित्याः । श्रपेचाबुद्धिः क्षणत्रयं तिष्ठति, चतुर्थक्षणे अपेक्षा बुद्धिना - शात् तत्प्रतीत्यधीनप्रततीनां नाशस्तत एव तेषामनित्व मिति भावः ।
इदन्तु बोध्यम् – सङ्ख्यात्वसामान्यवती सङ्ख्या । साच अव्यासज्यवृत्तिः व्यासज्यवृत्तिरिति द्विधा । तत्रैकत्वमव्यासज्यवृत्ति । द्वित्वादिकन्तु व्यासज्यवृत्ति । व्यासज्यवृत्तिधर्माणां पर्याप्तिसम्बन्धेन वृत्तित्वमिति नियमः ।
प्राभाकरास्तु-- द्वित्वादिकं नित्ये नित्यमनित्ये कारणगुणपूर्वकमाश्रयनाशना - श्यमपेत्ताबुद्धिव्यङ्ग्यमाचक्षते तन्न सम्यक् । समानदेशानां समानेन्द्रियग्राह्याणां प्रतिनियतव्यञ्जकव्यङ्गयताया असम्भवेन द्वित्वप्रत्यक्षकाल एव त्रित्वादेरपि प्रत्यक्षापत्तेरित पदार्थरत्नमाला |
(का० ) अनेकाश्रयपर्याप्ता एते तु परिकीर्तिताः ।
श्रपेचाबुद्धिनाशाच्च नाशस्तेषां निरूपितः || १०८ ||
( प्र० टी० ) एते = द्वित्वादयः परार्धान्ताः अनेकेष्वाश्रयेषु पर्याप्ताः = नानाधिकरणालम्बनाः । एतेषां नाशे हेतुमाह - " अपेक्षा बुद्धिनाशाच्चे" ति ।
( मु० ) अनेकेति । यद्यपि द्वित्वादिसमवायः प्रत्येकं घटादावपि वर्तते तथाध्येको द्वाविति प्रत्ययाभावात् एको न द्वाविति प्रत्ययसम्भबाच्च द्वित्वादीनां पर्याप्तिलक्षणः कञ्चन सम्बन्धोऽनेकाश्रयोऽभ्युप गम्यते । प्रथममपेक्षा बुद्ध:, ततो द्वित्वोत्पत्तिः, ततो विशेषणज्ञानं द्वित्वत्वविशिष्टप्रत्यक्षम्, अपेक्षा बुद्धिनाशश्चेति । ततो द्वित्वनाश इति ।
( प्र० टी० ) व्याख्यातुं प्रतीकमादत्ते -" श्रनेकेती " ति । " प्रथममि " ति - " श्रयमेकः श्रयमेक" इत्याकाराऽपेचाबुद्धिः प्रथमक्षणे जायते इत्यर्थः । “विशेषज्ञान " मिति - द्वित्वत्वरूपस्य विशेषणस्य निर्विकल्पकं ज्ञानमित्यर्थः । तच्च " इमे द्वित्वद्विस्वत्वे " इत्याकारकं ज्ञेयम् । " द्वित्वत्वे " ति -- अत्र प्रत्यक्षं लौकिकम् । " ततो द्वित्वनाश इती " ति -- पञ्चमे तणे द्वित्वस्य नाश इत्यर्थः ।
( मु० ) यद्यपि ज्ञानानां द्विक्षणमात्रस्थायित्वं योग्यविभुविशेषगुणानां