________________
(= :)
सिद्ध्यसिद्धयोर्विरोधो नो नासिद्धिरनिबन्धना ॥ इति ।
तस्मात् "यद्विशेषयोः कार्यकारणभावः तत्सामान्ययोरपि " इति नियमानुसारं यथा घटत्वधर्मावच्छिन्नघटमात्रं प्रति कुलालत्वधर्मावच्छिन्नस्य, यथा वा पटत्वधर्मावच्छिन्नपटमात्रं प्रति तन्तुवायत्वधर्मावच्छिन्नस्य कारणतेति विशेषधर्मावच्छिन्नतयाऽनन्तकार्य कारणभावः कल्प्यते तथैव “कार्यस्वधर्मावच्छिन्नम्प्रति कर्तृत्वधर्मावच्छिन्नस्थ कारणते 'ति सामन्यधर्मावच्छिन्नकार्यकारणभावकल्पनायामपि न काचिदनुपपत्तिः, ततश्च पृथिव्यादिकार्यं बुद्धिमच्चेतनकर्त्रघिष्ठितमिति सिद्धम्भवति । तत्राल्पशक्तयादिमत्त्वाज्जी वाधिष्ठातृत्वं न भवितुमर्हति, जडत्वाच्च जीवादृष्टेष्वधिष्ठातृत्वसम्भावनैव नास्ति, भवितव्यञ्च केनापि जडानामधि - ष्ठात्रा, परिशेषाद्यस्तेषामधिष्ठाता स एव सर्वज्ञः सर्वशक्तिमाञ्जगत्कारणमस्माकं परमेश्वरः । यद्यत्र कश्चन निरीश्वरवादी एवमाशङ्कत यद् भूभूधरादौ कार्यत्वं हेतुरस्तु बुद्धिमत्कर्तृ - जन्यत्वं मास्तु तत्र किं बाधकमिति" तदा अत्रेश्वरवादी व्याघाताख्यं तर्क प्रयोजयेत् श्रर्थात् यथा घटघटप्रागभावयोर्द्वयोः सहानवस्थानविरोधात् समानाधिकरण्यं नास्ति तद्वत् “यदि बुद्धिमत्कर्तृजन्यं न स्यात्तदा कार्यत्वमपि न स्यात् " अस्ति च कार्यस्वमतो बुद्धिमत्कर्तृजन्यत्वं निराबाधमेव इत्यनया दिशा प्रत्यवतिष्ठते । एतेन साध्यवैकल्यादिकमपि व्युदस्तं वेदितव्यम् । यत्तु—कर्तृत्वसामान्यसाध्यविवक्षायां ईश्वरात्मकविशेषकर्तुः सिद्धिर्दुर्घटेत्युक्तम् तदपि दुरुक्तम् अधिकरणसिद्धान्ततया तद्विशेषप्रतिपत्तेः । " द्यावाभूमीजनयन्देव एकः " (यजु० १७/१६) इत्याद्यागमोऽपि विशेषसाधक इति सर्वं चतुरस्रम् ।
ननु क्षित्यादिकं “कर्त्रजन्यं शरीराजन्यत्वात् गगनवदि"ति कथं न तवानुमानस्य सत्प्रतिपक्षितस्वमिति चेन्न ? जन्यत्वस्यैव समर्थतया शरीरविशेषणस्य व्यर्थत्वात् । नचाजन्यत्वमेवास्त्विति वाच्यम् तदसिद्धेः । नन्वास्तां तर्हि भवत्स्थापनानुमाने “ शरीर जन्यत्व " मुपाधिः तस्य घटादौ साध्यव्यापकत्वात् अङ्कुरादौ साधनाव्यापकत्वाच्चेति चेत् ? अत्र ब्रमः“उपाध्यभावेन साध्याभावानुमाने यदि तत्र किमप्युपाध्यन्तरमागच्छेत् तदा पूर्वोद्भावित उपाधिरनुपाधिर्मन्तव्य" इति हि दार्शनिकानां सम्प्रदायः । अनेन नियमेन वादि - प्रदर्शितोपाध्यभावेन साध्याभावानुमानाकारोऽयमस्ति यत् - "चित्यङ्कुरादिकं कर्त्रजन्यं शरीराजन्यत्वात् खादिवत्” इति । अत्र " प्रागभावाप्रतियोगित्वमुपाधिः " । तस्य कर्त्रजन्येषु खादिषु साध्यव्यापकत्वम्, शरीराजन्येषु चित्यादिषु च साधनाव्यापकत्वमस्त्येवेति कृत्वा सिद्धान्त्यनुमाने प्रदर्शितः “ शरीरजन्यत्व' 'मुपाधिरनुपाधिरेवेति विमलः पन्थाः | अधिकन्तु मत्प्रणीत" स्याद्वादध्वान्तमार्त्तण्डे ” उदयनाचार्यकृत कुसुमाञ्जल्यादिग्रन्थेषु च द्रष्टव्यम् ।
पिच मनुष्येषु यदिदं प्रत्यहमुपचीयमानं ज्ञानैश्वर्यादिकं पश्यामः तन्न स्वाभाविकं भवितुमर्हति तथासति तस्य परसाहाय्यापेक्षा नुपपत्तेः । नहि किञ्चिदपि स्वाभाविकं सत् परसाहाय्यापेक्षि दृष्टचरम्, यदात्मलाभाय परसाहाय्यमपेक्षते न तत् स्वाभाविकम्, अपितु नैमित्तिकम् । उपलभ्यमानञ्च ज्ञानैश्वर्यादिकं नियमेन परसाहाय्यमपेक्षत इति प्रत्यक्ष दृष्टतदस्माकम् कथमन्यथा प्रत्यहं महाविद्यालया विश्वविद्यालया वा स्थाप्यन्ते, समाहृत्य समा
,