________________
न्यायसूत्रोदारे
अप्रत्यभिज्ञानं च विषयान्तरण्यासङ्गात् ॥ ७ ॥ न गत्यभावात ॥ ८॥ स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः ॥९॥ स्फटिकेप्यपरापरोत्पत्तेः क्षणिकत्वाव्यक्तीनामहेतुः ॥ १० ॥ नियमहेत्वभावाद्यथादर्शनमभ्यनुज्ञा ॥ ११ ॥ नोत्पत्तिविनाशकारणापलब्धः ॥ १२॥ क्षीरविनाशे कारणानुपलब्धिवध्युत्पत्तिवच्च तदुपत्तिः ॥ १३ ॥ लिङ्गतो ग्रहणान्नानुपलब्धिः ॥ १४ ॥ न पयसः परिणामगुणान्तरप्रादुर्भावात् ॥ १५ ॥ व्यूहान्तराद्रव्यान्तरोत्पतिदर्शनं पूर्वद्रव्यनिवृत्तिरनुमानात् । १६॥ क्वचिद्विनाशकारणानुपलब्धः क्वचिच्चापलब्धेरनेकान्तः ॥ २७ ॥ नेन्द्रियार्थयोस्तद्विनाशेपि शानावस्थानात् ॥ १८ ॥ युगपज्ज्ञेयानुपलब्धश्च न मनसः ॥ १९ ॥ तदात्मगुणत्वेपि तुल्यम् ॥ १०॥ इन्द्रियमनसः सन्निकर्षाभावात्तदनुत्पतिः॥ २१ ॥ नोत्पत्तिकारणानपदेशात् ॥ २२ ॥ विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः ॥ २३ ॥ अनित्यत्वग्रहाद् बुद्ध यन्तराद्विनाशः शब्दवत् ॥ २४ ॥ ज्ञानसमवेतात्मप्रदेशसन्निकर्षान्मनसः स्मृत्युत्पत्तने युगपदुत्पत्तिः२५ नान्तः शरीरवृत्तित्वान्मसः ॥ २६ ॥
वृत्तिमता नात्वादिति सूत्रार्थ इति वार्तिकम् । ७ अस्य सूत्रत्वे न्यायसुचीनिबन्धः प्रमाणम् । ८ इदं सूत्रमिति वार्तिकम् । ९ इदं सूत्रमिति वार्तिकम् तदन्यत्वाभिमान इत्यस्य स्थाने तदभिमान इति पाठा न्यायनिबन्धप्रकाशे। १० स्फटिके-तुरिति ता. टी०।११ सिद्धान्तसूत्रं नय-ज्ञा इति ता० टी० लयहेत्व-इत्यादि पागे न्यायसूत्र. विवरणे । १२ उत्तरं सूत्रमवतारयतीति ता० टी०। १३-१४ १५ एषां सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । क्षीरविनाशकारणेति समस्तः पाठः क्वचित। १६ शेष भाष्ये इति वार्तिकस्वरसादस्य सूत्रत्वम् । १७ सिद्धान्तिनः सूत्रमिति वृत्तिः । १८ सिद्धान्तसूत्रमिति वृत्तिः। १९ युगपज् ज्ञेयानुपलब्धेश्च न मनस इति सूत्रमिति परिशुद्धिः । ज्ञेयस्थाने ज्ञानेति क्वचित्पाठः। २० तदात्मगुणत्वेऽपि तुल्यमिति सूत्रमेवेति परिशुद्धिः । २१ अस्य सूत्रत्वे प्रमाणं न्यायसूचीनिबन्धः । २२ इदं सूत्रमितिवार्ति. कम् । अनुपदेशादिति कचित्पादः । २३ विना-ग इति ता०टी०। २४-२५-२६ एषां