________________
श्री पार्श्वनाथ जिनेन्द्र स्तोत्रम् । ॐनमो देवदेवनाय, नित्यं भगवतेऽर्हते; श्रीमते पार्श्वनाथाय, सर्व कल्याण कारिणे।
ही रूपाय धरणेन्द्र, पद्मावत्यर्चिताङघ्रये; सिद्धातिशय कोटिभिः; सहिताय महात्मने।
अट्टे मट्टे पुरो दुष्ट-विघट्टे वर्ण पंक्तिवत्; दुष्टान् प्रेत पिशाचादिन्, प्रणाशयति ते मिधा।
स्तम्भय स्तम्भय स्वाहा, शतकोटि नमस्कतः। अधमत् कर्मणा दूरा-दापतन्तीविडम्बनाः। नाभिदेशोद्भवत्राले, ब्रह्मरन्ध्रप्रतिष्ठिते; ध्यातमष्टदले पद्म, तत्वमेतत् फलप्रदम्।
तत्वमत्र चतुवर्णी, चतुर्वर्ण विमिश्रिता; पंचवर्ण क्रमध्याता, सर्वकार्यकारी भवेत्।
क्षिप ॐ स्वाहेति वर्णैः, कृतपंचांग रक्षणः; योभिध्यायेदिदं तत्वं, वश्यास्तस्याऽखिलाः श्रियः ।
पुरूषं बाधते बाढं, तावत् कलेश परंपरा; यावत्र मंत्रराजोऽयं, हृदि जागर्ति मूर्तिमान्।
व्याधि बन्धवध व्याला-नलाम्भः सम्भवं भयम; क्षयं प्रयाति प्रयाति पार्श्वेश-नाम स्मरण मात्रतः।
यथा नादमयो योगी, तथा चेत् तन्मयो भवेत्; तथा न दुष्करं किञ्चित्, कथ्यतेऽनुभवादिदम् ।