SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आलम्बनपरीक्षाव्याख्या 39 बाह्यार्थस्य मिथ्याभूताकारस्य परीक्षितत्वादेव नास्ति' भूमिलक्षणम् । यथाविकल्पं विषयो वेद्यते । विषयाकारस्तु अन्तर्वर्ती न्याय्यो भविष्यति । कथं तदेकांशः सहजातः प्रत्ययः । ग्राह्यांशस्य विज्ञानं विना अभावात् अस्य एकांशः पुनर्विज्ञानं जनयति । तदा सिध्यति स्वरूपविरोधदोषः । पुनस्तदेकांशत्वात् । ग्राहकांशवत् । अस्य हि तदा जनकता न सिध्यति । विज्ञानं केवलं बाह्याकारक्लिष्टं प्रवर्तते । स एवाकारांशो विज्ञानसहजातः । न द्वयोः समकालीनयोः कार्यकारणभावोऽस्ति । यथा शृङ्गद्वयम् । किश्च न तदभिन्न वस्तु एककालं ''सहवर्तते [इत्युच्यते] । सहशब्दस्तु तत्संयोगवाची । नापि विज्ञानभिन्नो विषयोऽस्तीत्युच्यते । अस्य तु कथं सहजातत्वमित्याख्या । सत्यमेवम् । तथापि आकारविशेषबलात् तत् भिन्नं व्याकृत्य निरुच्यते । दृश्यांशाकारांशयोर्भेदोऽस्तीति तत् विज्ञानं सविशेषं गृह्यते । यद्येवम् । प्रत्ययत्वमेव ग्राह्यं स्यात् । न विकल्पितं वस्तु सस्वभावम् । तदा अस्य सिध्येत् अप्रत्ययत्वम् । इदमविरुद्धम् । अन्यग्राह्यविशेषविषयस्यायं प्रत्यय इति सर्वसंमतम् । यथा समनन्तरनिरोधः । सभागविज्ञाने · निरुध्यमाने तदेव विज्ञानं चतुर्विधैः प्रत्ययैः प्रत्ययो भवति ॥ 72 bhumi, ti Mearth' is probably an error for anya, ta, " another " as has been noted by the Chinese Editor. 13 Or सहजातस्य. 4 Lit. सहवर्तमानं सहशब्देन तत्संयुक्तमुच्यते. ' * Lit. प्रत्ययस्वभाव. 76 Here ends the Chinese text. The Chinese Editor notes that the commentary on remaining portion of the text is not known.
SR No.002350
Book TitleAlamban Pariksha
Original Sutra AuthorN/A
AuthorDinnaga, Dharmapala, N Aiyaswami Shastri
PublisherAdyar Library
Publication Year1942
Total Pages142
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy