________________
37
आलम्बनपरीक्षाव्याख्या इति [प्रदर्शयति । अतो विज्ञाने बाह्यविकल्पो विषयत्वेन स्थापितो गृह्यते । लोकविरोधः पुनः पूर्ववद्वर्तते । लौकिकानां हि संमतं विषयस्य बहिर्वर्तनमिति । [अतः] उच्यते बहिर्वदिति । स विज्ञानं विना नास्ति । तस्य ग्राह्यांशः
बहिर्वदवभासते । विषयं पश्यामीति वचनमाभिमानिकं, वस्तुतस्तद्धेतुकम् । यथा केशाद्यवभासि चाक्षुषविज्ञानम् ।
बाह्यार्थेऽविद्यमानेऽपि । . बाह्यार्थो वस्तुतो नास्ति । अप्रतीतत्वात् । न हि युक्त्या विचारे नियततत्स्वरूपं बहिः प्रतीयते । यद्यपि बाह्यलक्षणं वस्तुसत् इति ते स्वीकुर्वन्ति । तथापि न तित् ] विज्ञानालम्बनं भवति । अतदाकारत्वात् न परमाण्वाकारोऽवभासते ।
बाह्याकारवदवभासमानमिदमालम्बनप्रत्ययः ।।
तदाकारयुक्तत्वात् । यत् [यद्-] आकारयुक्तं तत् तदेव । यथा कारणतादिः स्वाकारयुक्तः । पुनरालम्बनस्य विशेषस्वरूपं प्रदर्शयति । यथाह ।
"विज्ञानस्य तदाकारवत्त्वादित्यादि ।
3 Kar.6b.
st This sentence will literally read : यदि आकारयुक्तत्वात् तत् तदेव । यथा कारणतादिः स्वाकारयुक्तत्वात् .
ts = विज्ञानरूपत्वात् , etc. Kar. 6c-d.