________________
. आलम्बनपरीक्षा सहकारिवशाद्यद्धि शक्तिरूपं तत् ] इन्द्रियम्' ० ॥ ७ ॥ इन्द्रियं स्वकार्यात् शक्तिरूपमेवानुमीयते न तु भौतिकम् । • सा चाविरुद्धा विज्ञप्तेः
1'शक्तिस्तु विज्ञाने वास्तु । अनिर्देश्ये स्वस्य" रूपे वास्तु कार्योंत्पत्तौ न विशेषः ।
एवं विषयरूपकम् । प्रवर्तेतेऽनादिकालं शक्तिश्चान्योन्यहेतुके |॥ ८ ॥
चक्षुराख्यां शक्तिमन्तः "रूपञ्चोपादाय विज्ञानमर्थावभासि आलम्बनादविभक्तमुत्पद्यते । इदं द्वयमपि अनादिकालमन्योन्यहेतुकम् । कदाचित् विज्ञानस्य शक्तिपरिपाकात् विषयाकारता भवति । कदाचिच्च तदाकारशक्तिः । विज्ञानं सा च उभयमन्यत्वेनानन्यत्वेन च यथेष्टमुच्यताम् । एवमन्तरालम्बनं धर्मताद्वयविशिष्टत्वात् विषयतया उपपद्यते ॥
इत्याचार्यदिङ्नागकृता आलम्बनपरीक्षावृत्तिः समाप्ता
162 Cf. Madhyamakāvatāra, Sanskrit text VI, 62 and bhāşya thereon.
" =nus. pa. ni. Xylograph omits it. 16 Or. स्वरूपे=ran. gi. lio. bo. la.
=nan. gi. gzugs. 20 ==de. hi. rnam. pahi. nus. po. 1 Better reading will be अन्तर्विज्ञानं. Cf. vrtti ad 6c-d.