________________
५१
समतामहोदधिः महाकाव्यम
आहारेण च दुग्धेन,
कृतान्येकाशनानि तैः । पुनापुरे तथा पद्म
स्तपस्त्यागौ कृतावपि ।।४८॥
.
ग्रामे जैनगृहाभावे,
जैनेतरगृहेषु ते । आटन्निर्दोषभिक्षार्थं,
तज्जीवितं हि संयमः ।।४९ ।।
वदनवस्त्रिकायास्ते,
प्रयोगं व्यस्मरन्यदि । सम्भाषणे दिने तस्मिन्,
तर्हि चकारमत्यजन् ।।५०॥
तैर्नित्यैकाशनैः सार्धं,
कृतास्त्रिंशन्नवाधिकाः । निर्ममैर्वर्धमानस्य,
दक्षैस्तपस ओलयः ।।५१।। १. चकारः = 'चहा' इति भाषायाम् ।