________________
४९
समतामहोदधिः महाकाव्यम् श्रीपद्मविजयैरेवं,
सुप्रसन्नीकृतौ गुरू । भवसमुद्रनोकल्पा,
सम्प्राप्ता च तयोः कृपा ॥४४॥
कुर्वाणो मानुषी बुद्धिं,
गुरौ हि नरकं व्रजेत् । आसीत्सूत्रमिदं तेषां,
गुरौ प्रभुत्वदर्शिनाम् ।।४५॥
तपस्त्यागसाधना ।
संयमजीवनेऽकुर्वन्
नित्यमेकाशनानि ते । फलमिष्टान्नवैशिष्ट्य
वद्रव्यत्यागतत्पराः ।।४६।।
एकाशनानि सूरीशैः,
प्रेमैः कृतानि पत्तने । आहारेण च सूपेन,
रसनेन्द्रियजित्वरैः ।।४७।।