________________
३७ -
__ समतामहोदधिः महाकाव्यम्
विपरीतं विहीनं तैः,
शुष्कं भवति कुत्सितम् । कदाग्रहे तदुत्सूत्रे,
पातयति स्वधारकम् ।।२०।।
गुरुसेवार्जितं ज्ञानं,
स्यात्स्वपरोपकारकम् । गुरुसेवाविहीनं तत्,
स्यात्स्वपराऽपकारकम् ।।२१।।
प्रतिक्रमणसूत्राणि,
चतुःप्रकरणानि च । ग्रन्थौ द्वौ कर्मणः पाठ
शालायां तैरपठ्यत ।।२२।।
भाषा विद्यालयेऽधीता,
वरप्रज्ञैः सुसंस्कृता । तैः पूर्वमिति दीक्षायाः,
प्राप्तं धार्मिकशिक्षणम् ।।२३।।