________________
३५३
_ समतामहोदधिः महाकाव्यम्
मुक्तेति नामतस्तस्य,
धर्मभार्याऽस्ति शीलभाक् । श्रीहेमचन्द्रसूरीशै
स्तौ धर्मं प्रतिबोधितौ ।।१३।।
ततश्च जिनधर्मस्य,
समाराधनया तयोः । वासितमस्ति सम्पूर्णं,
जीवनं मुक्तिगामिनोः ।।१४।।
दृब्धमिदं महाकाव्यं,
भव्यं तयोः सुतेन तु । श्रीहेमचन्द्रसूरीश
शिष्येण रत्नबोधिना ।।१५।।
महाकाव्यमिदं नाम्ना,
'समतादिमहोदधिः' । मुदं ददातु सर्वेभ्यो,
यावच्चन्द्रदिवाकरौ ॥१६॥