________________
३५१
पंन्यासपद्मशिष्याय,
श्रीहेमचन्द्रसूरये ।
नमो मे गुरुदेवाय,
वात्सल्यनिधये सदा ।। ९ ।।
नमो विद्यागुरुभ्यो ये,
सहायाश्च ममाऽभवन् ।
सद्भ्यो बहूपकारिभ्यः,
. समतामहोदधिः महाकाव्यम्
परेभ्योऽपि ह्यहर्निशम् ।।१०।।
हालारनामदेशेषु,
ग्रामः समस्ति सुन्दरः ।
जोगवडाख्यया ख्यातः,
सुसमृद्ध धनादिभिः ।।११।।
'रामजी' नामसुश्राद्धो,
गुणी तत्र पुराऽवसत् ।
मुम्बाभिधानपुर्यां तु,
निवसति स सम्प्रति ।। १२ ।।