________________
३४७__
समतामहोदधिः महाकाव्यम्
प्रशस्तिः
।
नमोनमस्तपागच्छ
गगनाभोगभास्वते । मूर्तिमण्डनदक्षाय,
विजयानन्दसूरये ॥१॥
नमस्तच्छिष्यरत्नाय,
कमलमुनिनाथाय । पद्मतुल्यगुणेनाय,
करुणारससिन्धवे ॥२॥
तदन्तेवासिमुख्याय,
शूराय कर्मभेदने । वाचकवरवीराय,
नमः प्रशमदायिने ॥३॥
तच्छिष्याय नमः सर्व
शास्त्ररहस्यवेदिने । सूरीशवरदानाय,
ज्ञानाराधनकारिणे ॥४॥