________________
३१७
_ समतामहोदधिः महाकाव्यम्
अश्रावयस्तदा भानु
विजयास्तान्क्षमापनाम् । नमस्कारमहामन्त्रं,
चत्वारि शरणानि च ।।१३।।
सूरयः साधवोऽन्येऽपि,
संवेगवर्धकानि च । भावसमाधिकारीणि,
वचाँस्यश्रावयन्मुदा ।।१४।।
संसारिस्वजनास्तेषा
मागताः पुण्यशालिनाम् । वन्दनार्थं तु सर्वेऽपि,
सातापृच्छाकृते तथा ।।१५।।
स्वीयमुखे स्मितं तेऽपि,
प्रसार्य हस्तचेष्टया । लाभं धर्मस्य सर्वेभ्यो,
दत्तवन्तः स्पृहामुचः ।।१६।।