________________
३११
समतामहोदधिः महाकाव्यम्
दशमं पद्मम् ।
श्रावणप्रथमायां तु,
कृष्णायां हस्तपादयोः । तेषां कर्षणमारब्धं,
श्याम्यभवन्मुखं तथा ।।१।।
हिरण्यगर्भयोगस्तु,
सुवैद्येन कृतस्तदा । तैनाऽऽगता तनौ स्फूर्ति
स्तेषां शान्तञ्च कर्षणम् ।।२।।
क्षमापना व्रतोच्चारः
पुनस्तैः प्रकृतौ तथा । गच्छाधिपतयः पूज्या,
अददुः प्रेरणा इति ।।३॥
कार्यं सदैव युष्माभिः,
. साधनायां स्थिरं मनः । कदाचिदपि नोद्वेगो,
विकल्पा अशुभास्तथा ॥४॥ १. तेन = हिरण्यगर्भयोगेन ।