________________
३०९
.समतामहोदधिः महाकाव्यम्
गुरूणां बहुमानेन,
प्रसन्नतामधारयन् । अद्वितीयां समाधिञ्च,
तेऽपरजीवदुर्लभम् ।।५३।। युग्मम् ।। आरवं नैव पीडायाः,
कृतवन्तः कदापि ते । । अस्थापयन्सदा चित्तं,
प्रभुध्याने च पावने ।।५४॥ वैराग्यसागर-जिनेवरभक्तिदक्ष___हेमेन्दुसूरिशिशुना रचिते सुभक्त्या । पंन्यासपद्मविजयस्य चरित्र काव्ये,
पद्मं जिनस्य कृपया नवमं समाप्तम् ।।५५।।
इति वैराग्यदेशनादक्ष-आचार्यश्रीमद्विजयहेमचन्द्रसूरिशिष्यविनिर्मित-'समतामहोदधि'-महाकाव्ये शील्दरोपधानतपः -पालनपुरचैत्रौलि-चरमचातुर्मासतीव्रवेदनासहनादिवर्णनमयं नवमं पद्म समाप्तम् ।