________________
२९१
समतामहोदधिः महाकाव्यम्
ततश्च विहृताः पूज्याः,
प्रति डीसापुरं कृतम् । स्वागतं तत्र सङ्घन,
तेषामुत्साहभृद्धृदा ।।१७।।
शङ्खधरस्य पार्थस्य,
तत्र प्रभावशालिनः । समूहाऽऽयोजनं जात
मष्टमतपसो विभोः ॥१८॥
श्रीपूज्या नूतने डीसा
पुरे प्राप्तास्ततस्तथा । स्वास्थ्यार्थं तत्र साधोस्तु,
कस्यचिद्रोगिणः स्थिताः ।।१९।।
चातुर्मासकृते पूर्वं,
. पिण्डवाडापुरस्य या । कृता सङ्घन विज्ञप्तिः,
पूज्यैः सा स्वीकृता तदा ।।२०।।