________________
२८५
_ समतामहोदधिः महाकाव्यम्
जले निमज्जता लब्धं,
नरेण फलकं यदि । नैव मज्जति तीरञ्च,
शीघ्रं प्राप्नोति तर्हि सः ।।५।।
देवगुर्वोस्तथा व्याधौ,
शरणं यदि लभ्यते । जायते नैव दुर्थ्यानं,
तर्हि समाधिराप्यते ॥६॥
श्रीपूज्याः शील्दरग्रामे,
समाप्य तपसो महः । आराधनाय चैत्रौले
र्गताः प्रहलादने पुरे ॥७॥
श्रीभानुविजयैयूनां,
तत्त्वज्ञानस्य वाचनाः । आरब्धाः पाठशालाना
मनभ्यासदिनेषु तु ।।॥ १. अनभ्यासदिनानि = 'वेकेशन' इति भाषायाम् ।