________________
२६७.
समतामहोदधिः महाकाव्यम्
साधून्पत्रे लिखित्वा ते,
मध्याह्नसमये तथा । सुष्ठु प्रेरितवन्तश्च,
प्रमादादतिभीरवः ॥२९॥
श्रीचतुर्विधसङ्घन,
शोभनाऽऽराधना पुरे । प्रकृता शिवगजेऽपि,
सुरेन्द्रनगरे यथा ॥३०॥
पौराद्यदिनादेव,
पर्युषणाऽऽख्यपर्वणः । उपवासाः समारब्धा
स्तत्र गुरुवराज्ञया ।।३१॥
उपवासास्तदाष्टौ तु,
जाता इति विचिन्तितम् । सर्वैरुज्ज्वलपञ्चम्यां,
ते करिष्यन्ति पारणम् ।।३२।।