________________
२६५ -
समतामहोदधिः महाकाव्यम् कथितः कर्मराजस्तै
यत्सुवर्णं विशुध्यति । अग्निना ते प्रहारैर्मे,
शुद्धिस्तथा भविष्यति ।।२५।। अत्र तवैव हानिर्न,
म ईषदपि भाविनी । त्वयैव ह्यात्मगेहान्मे,
निर्गन्तव्यं यतोऽधुना ।।२६।। युग्मम् ।।
सुवैद्यः खीमचन्दाख्यः,
रुक्शान्त्युपायवित्सदा । रतः श्रीपद्मसेवायां,
शिवगञ्जपुरेऽभवत् ।।२७॥
जपे ध्याने च तल्लीनाः,
श्रीपद्मा अभवन्निशि । प्रज्ञापनां तथोपाङ्ग,
दिवससमयेऽपठन् ।।२८॥