________________
२६३.
समतामहोदधिः महाकाव्यम्
श्रीपद्मविजयाः प्राप्ताः,
सिरोहीनगरे वरे । ते हृष्टा जिनबिम्बानां,
दर्शनेन भृशं तदा ।।२१।।
चातुर्मासप्रवेशस्तैः,
कृतः सहैव सूरिभिः । . शिवगञ्जपुरे वृद्धा,
तत्र त्वस्वस्थता परम् ।।२२।।
काशनं सह वान्त्या तु,
तत्राऽभवद् भयङ्करम् । मुक्तोन्मेषं शनैर्जातं,
तेषां दक्षिणलोचनम् ।।२३।।
उभयोर्वर्धमानाऽसीद्,
बधिरता च कर्णयोः । अत्यद्भुते तथाऽप्यास्तां,
तेषां समाधिधीरते ।।२४।।