________________
२५७
कृत्वा देसाइवैद्यस्तु,
चिकित्सां दत्तवानितः ।
सूचाः काश्चन पद्मभ्यः.
पुरे राजाभिधे वरे ||९॥
तदीयसमताधैर्ये,
दृष्ट्वा सोऽपि प्रभावितः ।
मीलिता सह पूज्यैस्ते,
. समतामहोदधिः महाकाव्यम्
महेसाणापुरे पुनः । । १० ॥
स्पृष्ट्वा विविधतीर्थानि
चैत्रघर्म दिनेष्वपि ।
पिण्डवाडापुरे प्राप्ताः,
सूरिभिः सह ते तदा ।। ११।।
पूज्यपवित्रनिश्रायां,
सम्पन्नः परमोत्सवः ।
अञ्जनस्य प्रतिष्ठाया
श्च तत्रोत्साहपूर्वकम् ।। १२ ।।