________________
२५३ .
अष्टमं पद्मम् ।
पिण्डवाडापुरे जातः,
श्रीवीरस्य जिनेशितुः ।
उद्धारो जीर्णचैत्यस्य,
प्राचीनस्यातिसुन्दरः ।।१॥
कर्त्तव्या पूज्यनिश्रायां,
प्रतिष्ठेति सुनिश्चितम् ।
सङ्घेन तत्स विज्ञप्त्यै,
• समतामहोदधिः महाकाव्यम्
सुरेन्द्रपुरमागतः ।।२।।
श्राद्धस्य भगवन्नाम्नः,
कङ्कुश्राद्ध्यास्तथा किल ।
तनयाः प्रेमचन्दाख्या,
श्रीप्रेमसूरयोऽभवन् ॥३॥
पत्तनं पिण्डवाडाख्यं,
तेषामासीत्तु जन्मभूः ।
पूज्या बहुमता आसँ
स्तत्सङ्घस्य ततो बहु । । ४ । ।