________________
२४३
___ समतामहोदधिः महाकाव्यम्
बहुवैराग्यपूर्णानि,
श्रीभानुविजयैस्तथा । सुचरितानि गेयानि,
श्रावितानि महात्मनाम् ।।१३४॥
अन्ये मुनिवराः शान्ति
मनन्यां तेभ्य आर्पयन् । श्रावयित्वा मुहुर्गेय
चरितस्तवनादिकम् ।।१३५।।
स्वात्मन्यतिशयेनेत्थं,
तेऽन्वभवन्प्रसन्नताम् । भावतीर्थकृतां ध्याने,
तल्लीना अभवस्तथा ।।१३६।।
नमस्कारमहामन्त्रं,
मन्त्रं श्रीषोडशाक्षरम् । श्रीशङ्खधरपार्थस्य,
नाममन्त्रञ्च तेऽजपन् ।।१३७।।