________________
२२१.
तैः पालनेन दीक्षाया,
अप्रमादेन कर्म तु ।
मोहनीयाभिधं भग्नं,
मुक्तभयास्ततोऽभवन् ।।८९ ।।
. समतामहोदधिः महाकाव्यम्
अतिप्राज्ञा अमन्यन्त, तेऽसातमुपकारकम् ।
सहायं निर्वृतेः प्राप्तौ,
प्राक्कर्मक्षयकारकम् ।। ९० ।।
स्फोटाद्विकृतरक्तस्य, निर्गमनेन जायते ।
स्वल्पकालं यथा दुःखं,
सुशान्तिस्तु चिरं परम् ।।९१ ।।
समतया ह्यसातस्य,
सहनेन गुणास्तथा ।
लभ्यन्ते च क्षयं यान्ति,
दोषा ज्ञातं तु तैरिति । । ९२ ।। ।। युग्मम् ॥