________________
२०९.
समतामहोदधिः महाकाव्यम्
तैः कृतं शुभभावेन,
प्रतिक्रमणमाब्दिकम् । पूज्येभ्य उपवासस्तु,
द्वितीये याचितो दिने ।।५।।
श्रीपूज्यैः सम्मतिस्तेषां,
भावनायां प्रदर्शिता । अकुर्वन्नुपवासं ते,
ततः परं दिने दिने ।।६६।।
सविध्याऽऽराधनाऽऽरब्धा,
स्थानानां विंशतेश्च तैः । अकुर्वंस्ते जपध्याने,
पञ्चानां परमेष्ठिनाम् ।।६७।।
युक्तस्य प्रातिहार्येस्ते,
समवसृतिराजिनः । भावार्हतः शुभं ध्यानं,
कृतवन्तश्च कर्मभित् ।।६८।। १. कर्मभित् = कर्म भिनत्तीति कर्मभित्, तत्कर्मतापन्नम् ।